________________
१९६
काव्यमाला
त्राश्रयेण चाभेदोपचाररूपा संभवति । यथा तीक्ष्णत्वादग्निर्माणवकः । आह्लादकत्वाचन्द्र एवास्या मुखमित्यादौ । यथा च 'प्रिये जने नास्ति पुनरुक्तम्' इत्यादौ । यापि लक्षणरूपा गुणवृत्तिः साप्युपलक्षणीयार्थसंबन्धमात्राश्रयेण चारुरूपव्यङ्गयप्रतीति विनापि संभवत्येव । यथा मञ्चाः क्रोशन्तीत्यादौ विषये । यत्र तु सा चारुरूपव्यङ्ग्यप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असंभविना चार्थेन यत्र व्यवहारः यथा 'सुवर्णपुष्पां पृथिवीं' इत्यादौ तत्र चारुरूपव्यङ्गयप्रतीतिरेव प्रयोजिकेति तथाविधेऽपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी । तस्मादविवक्षितवाच्ये ध्वनौ द्वयोरपि प्रभेदयोर्व्यञ्जकत्वविशेषाविशिष्टा गुणवृत्तिर्न तु तदेकरूपा सहृदयहृदयाह्नादिनी प्रतीयमाना । व्यापारस्तस्याश्रयेण तदुपबृंहणायेत्यर्थः । श्रुतार्थापत्तिविधा)र्थान्तरस्याभिधेयार्थोपा. दान एव पर्यवसानादिति भावः । तत्र गौणस्योदाहरणमाह-यथेति । द्वितीयमपि प्रकारं व्यजकत्वशून्यं निदर्शयितुमुपक्रमते यापीति । चारुरूपं विश्रान्तिस्थानं तदभावे स व्यजकत्वव्यापारो नैवोन्मीलति । प्रत्यावृत्त्य वाच्यरूप एव विश्रान्तेः । क्षणदृष्टनष्टदिव्यविभवप्राकृतपुरुषवत् । ननु यत्र व्यङ्ग्येऽर्थे विश्रान्तिस्तत्र किं कर्तव्यमित्याशझ्याह-यत्र स्विति । अस्ति तत्रापरो व्यञ्जनव्यापारः परिस्फुट एवेत्यर्थः । दृष्टान्तं परागीकृतमेवाह-व्यञ्जक(वाचक)त्ववदिति । वाचकत्वे हि त्वयैवाङ्गीकृतो व्यञ्जनव्यापारः प्रथमं ध्वनिप्रभेदं मन्या(मत्वा ?) इति भावः । किं च वस्त्वन्तरे मुख्ये संभवति संभवदेव वस्त्वन्तरं मुख्यमेवारोप्यते । विषयान्तरमात्रतस्त्वारोपव्यवहार इति जीवितः(2) विचारस्य सुवर्णपुष्पाणां मूलत एवासंभवस्तदुच्चयनस्य तत्र क आरोपव्यवहारः । 'सुवर्णपुष्पां पृथिवीं' इति हि स्यादारोपः । तस्मादत्र व्यञ्जनव्यापार एव प्रधानभूतो नारोपव्यवहारः । स परं व्यञ्जनव्यापारानुरोधितयोत्तिष्ठति । तदाह-असंभविनेति। प्रयोजिकेति । व्यङ्ग्यमेव हि प्रयोजनरूपं प्रतीतिविश्रामस्थानमारोपिते त्वसंभवति प्रतीतिविश्रान्तिराशङ्कनीयापि न भवति । सत्यामपीति । व्यञ्जनव्यापारसंपत्तये लक्षणमात्रवृत्त्यामवलम्बितायामिति भावः। तस्मादिति । व्यञ्जकत्वलक्षणो यो विशेषस्तेनाविशिष्टा अविद्यमानं विशिष्टं विशेषो भेदनं यस्याः । व्यञ्जकत्वं न तस्या भेद इत्यर्थः । यदि वा व्यञ्जकत्वलक्षणेन व्यापारविशेषेणावि(शि)ष्टान्यकृतखभावा आसमन्ताघ्याप्ता । तदेकेति । तेन व्यञ्जकत्वलक्षणेन सहैकं रूपं यस्याः सा तथाविधा न भ
१. 'आह्लादहेतुत्वात्' ग. २. 'प्रयोजने' क-ख. ३. 'विशेषणाविष्टा' क-ख. १. 'यथातीक्ष्णत्वादि' क-ख. २. 'असंभाविनेति' क-ख. ३. 'विश्रान्ति' ग...