________________
३ उयोतः] ध्वन्यालोकः।
१९७ तीतिहेतुत्वाद्विषयान्तरे तद्रूपशून्यायाश्च दर्शनात् । एतच्च सर्व प्राक्सूचितमपि स्फुटतरप्रतीतये पुनरुक्तम् ।
अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोधर्मः स प्रसिद्धसंबन्धानुरोधीति न कस्यचिद्विमतिविषयतामर्हति । शब्दार्थयोर्हि प्रसिद्धो यः संबन्धो वाच्यवाचकभावाख्यस्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्र्यन्तरसंबन्धादौपाधिकः प्रवर्तते । अत एव वाचकत्वात्तस्य विशेषः । वाचकत्वं हि शब्दविशेषस्य नियत आत्मा संबन्धी । व्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् । स त्वनियतः । औपाधिकत्वात् । प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः । ननु यद्यनियतस्तत्कि तस्य स्वरूपपरीक्षया । नैष दोषः । यतः शब्दात्मनि तस्यानियतत्वं न तु खे विषये व्यङ्ग्यलक्षणे । लिङ्गत्वन्यायश्चास्य व्यञ्जकमावस्य लक्ष्यते । तथाहि लिङ्गत्वमाश्रयेषु नियतावभासम् इच्छाधीनत्वात्स्व विषयाव्यभिचारि च तथैवेदं यथा दर्शितं व्यञ्जकत्वम् । शब्दात्मनि नियतत्वादेव च तस्य
वति । अविवक्षितवाच्ये व्यञ्जकत्वं गुणवृत्तेः पृथक्चारुप्रतीतिहेतुत्वात् । विवक्षितवाच्यनिष्ठव्यञ्जकत्ववत् । नहि गुणवत्तेश्चारुप्रतीतिहेतुखमस्तीति दर्शयति-विषयान्तर इति । अग्निर्वटुरित्यादौ । प्रागिति प्रथमोड्योते । नियतखभाववाच्यवाचकत्वादौपाधिकत्वेन नियतं व्यञ्जकत्वं कथं न भिन्ननिमित्तमिति दर्शयति-अपि चेति । औपाधिक इति । व्यञ्जकवैचित्र्यं यत्पूर्वमुक्तं तत्कृत इत्यर्थः । अत एव समयनियमितादभिधाव्यापाराद्विलक्षण इति यावत् । एतदेव स्फुटयति-अत एवेति । औपाधिकत्वं दर्शयति-प्रकरणादीति । किं तस्येति । अनियतत्वाद्यथारुचि कल्प्येत । पारमार्थिकं रूपं नास्ति । न चावस्तुनः परीक्षोपपद्यत इति भावः । शब्दात्मनीति । संकेतास्पदे घटस्वरूपमात्र इत्यर्थः । आश्रयेष्विति । नहि धूमे वह्निगमकत्वं सेदातनम् । अन्यगमकत्वस्य च दर्शनात् । इच्छाधीनत्वादिति । इच्छामात्र पक्षधर्मवजिज्ञासाव्याप्तिः खमूर्षाप्रभृतिः (१) । स्वविषयेति । खस्मिन्विषये च गृहीते त्रैव
१. 'संबन्धव्युत्पत्ति' क-ख. २. 'व्यञ्जक' क. ३. 'इच्छाविषयत्वात्' ग. १. 'उपपन्ना' ग. २. 'सदातनं' ग. ३. 'अन्य.."स्य वह्वयगमकत्वस्य' ग. ४. इच्छात्र व्यापकधर्मताजिज्ञासा' ग. ५. 'संमूर्षा' ख, 'सुस्यूषा' ग. ६. 'गृह्यते त्रैरूप्यादौ' क-ख.
१८ ध्व० लो.