________________
१९८
काव्यमाला ।
वाचकत्वप्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् । स च तथाविध औपाधिको धर्मः शब्दानामौत्पत्तिकशब्दार्थ संबन्धवादिना वाक्यतत्त्वविदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषममिदधता नियमेनाभ्युपगन्तव्यः । तदनभ्युपगमे हि तस्य शब्दार्थसंबन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपादने निर्विशेषत्वं स्यात् । तदभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितौपेधिकव्यापारान्तराणां सत्यपि खाभिधेयसंबन्धापरित्यागे मिथ्यार्थतापि भवेत् । दृश्यते हि भावानामपरित्यक्तखखभावानामपि सामभ्यन्तरसंपात संपादितौपाधिकव्यापारान्तराणां विरुद्ध क्रियत्वम् । तथा हि हिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदद्यमानमानसैर्जनैरालोक्यमानानां सतां संतापकारित्वं प्रसि द्धमेव । तस्मात्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिकेऽर्थसंबन्धे मिथ्यार्थत्वं समर्थयितुमिच्छता वाचकत्वव्यतिरिक्तं किंचिद्रूपमौपाधिकं व्यक्तमेवाभिधानीयम् । तच्च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्यप्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्ति स च व्यङ्ग्य एव न त्वभिधेयः । तेन सहाभिधानस्य वा
रूप्यादौ न व्यभिचरति । न कस्यचिद्विमतिमेतीति यदुक्तं तत्स्फुटयति — स चेति । व्यञ्जकत्वलक्षण इत्यर्थः । औत्पत्तिकेति । जन्मना द्वितीयो भावविकारः सत्तारूपः सामीप्याल्लक्ष्यते । विपरीतलक्षणातो वा उत्पत्तिः रूढ्या वा औत्पत्तिकशब्दो नित्यपययः । तेन नित्ययोः शब्दार्थयोः शक्तिलक्षणं संबन्धमिच्छति जैमिनेयस्तेनेत्यर्थः । निर्विशेषत्वमिति । ततश्च पुरुषदोषानुप्रवेशस्या किंचित्करत्वात्तन्निबन्धनं पौरुषेयेषु वाक्येषु पदप्रामाण्यान्न सिध्येत् । प्रतिपत्तुरेव हि यदि तथा प्रतिपत्तिस्तर्हि वाक्यस्य न कश्चिदपराध इति कथमप्रामाण्यम् । अपौरुषेये हि वाक्ये प्रतिपत्ति (तृ) दौरात्म्यात्तथा स्यात् । ननु धर्मान्तराभ्युपगमेऽपि कथं मिथ्यार्थता । नहि प्रकाशकत्वलक्षणं स्वधर्मं जहाति शब्द इत्याशङ्क्याह-दृश्यत इति । प्राधान्येनेति । यदाह - एवमयं पुरुषो वेदेति भवति प्रत्ययः न त्वेवमर्थ इति । तथा प्रमाणान्तरदर्शनमत्र बाध्यते । ननु शब्दोऽन्वय इत्यनेन पुरुषाभिप्रायानुप्रवेशादेवाङ्गुल्यग्रवाक्यादौ मिथ्यार्थत्वमुक्तम् । तेन
१. 'वाचकत्वाप्रकारता' ग. २. 'रोपितोपाधिव्यापार' ग.
१. 'वातूत्पत्तिः रूढा वा' क, 'पर उत्पत्तिकशब्दो' ग. २. 'पौरुष' क- ख. ३. ‘प्रमाणान्तं' क, 'प्रामाण्यं' ग. ४. 'अङ्गुल्यर्पणवाक्यादौ' क-ख.