SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ३ उझ्योतः] ध्वन्यालोकः। १२५ अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसंक्रमितवाच्यः । अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा'या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥' अनेन हि वाक्येन निशार्थो न जागरणार्थः कश्चिद्विवक्षितः । किं तर्हि तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम् । इति । एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः ॥ [इति च्छाया।] एवमेवेति स्वयमविवेकान्धतया जन इति लोकप्रसिद्धगतानुगतिकमात्रशरणः तस्या इत्यसाधारणगुणगणमहाघवपुषः । कपोलोपमायामिति निर्व्याजलावण्यसर्ववभूतमुखमध्यवर्तिप्रधानभूतकपोलतलस्योपमायां प्रत्युत तदधिकवस्तुकर्तव्यं ततो दूरनिकृष्टं शशिबिम्बं कलङ्कव्याजजिह्मीकृतम् । एवं यद्यपि गड्डरिकाप्रवाहपतितमभितः पतितो लोकः, तथापि यदि परीक्षकाः परीक्षन्ते तद्वराकः कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव क्षयित्वविलासशून्यत्वमैलिनवधर्मान्तरसंक्रान्तो युक्तः । अत्र च यथा व्यङ्ग्यधर्मान्तरसंक्रान्तिस्तथा पूर्वोक्तमनुसंधेयम् । एवमुत्तरत्रापि । एवं प्रथमभेदस्य द्वावपि प्रकारौ पदप्रकाशकलेनोदाहृत्य वाक्यप्रकाशकलेनोदोहरति-या निशेति । विवक्षित इति । तेन ह्युक्तेन न किंचिदुपदेश्यं प्रत्युपदेशः सिद्ध्यति । निशायां जागरितव्यमॅन्यत्रान्धवदासितव्यमिति किमनेनोक्तेन । तस्माद्बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्त्वदृष्टाववधानं मिथ्यादृष्टौ च 'पैराङ्मुखवं ध्वनति । सर्वशब्दार्थस्य चापेक्षिततयाप्युपपद्यमानतेति न सर्वशब्दार्थान्यथानुपपत्त्यायमर्थ आक्षिप्तो मन्तव्यः । सर्वेषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशाख्या मोहजननी तत्त्वदृष्टिस्तस्यां संयमी जागर्ति कथं प्राप्यतेति । न तु विषयवर्जनमात्रादेव संयमीति यावत् । यदिवा सर्वभूतनिशायामेव मोहिन्यां जागर्ति कथमियं हेयेति । यस्यां तु मिथ्यादृष्टौ सर्वाणि भूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः । तस्यां हि चेष्टायां नासौ प्रबुद्धः । एवमेव लोकोत्तरव्यवस्थितिः पश्यति मन्यते च । तस्यैवान्तर्बहिष्करणवृत्तिश्चरितार्था । अन्यस्तु न पश्यति न च मन्यत इति तत्त्वदृष्टिपरेण भाव्यमिति १. 'वाक्यार्थेन' ग. १. 'तदधिकरणगुणं वस्तु' क-ख. २. 'जिह्मितम्' ग. ३. 'गलितत्व' ग. ४. 'योऽर्थः' ग. ५. 'उदाहरति-अविवक्षितेत्यादि' क-ख. ६. 'संभवति' क-ख. ७. 'इत्यत्र रात्रिवदासितव्यं' क-ख. ८. 'पराधीनवं ध्वनितं' क-ख. ९. 'लोकोक्ति' क-ख. १२ ध्व० लो.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy