________________
१२४
काव्यमाला
संनद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्' । यथा वा तस्यैव-'किमिव हि मधुराणां मण्डनं नाकृतीनाम्' । एतेषूदाहरणेषु समिध इति संनद्ध इति मधुराणामिति च पदानि व्यञ्जकाभिप्रायेणैव कृतानि ।
तत्यैवार्थान्तरसंक्रमितवाच्ये यथा-'रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्' ।
अत्र रामेणेत्येतत्पदं साहसैकरसत्वादि व्यङ्गयाभिसंक्रमितवाच्यं व्यञ्जकम् । यथा वा'एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् । परमत्थविआरे उण चन्दो चन्दो विअ वराओ ।'
ध्यन्यते । तस्यैवेति । अविवक्षितवाच्यस्य यो द्वितीयो भेदस्तस्येत्यर्थः । 'प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्च तथा खया कुलजनो धत्ते यथोच्चैः शिरः । व्यर्थं संप्रति बिभ्रता धनुरिदं त्वद्यापदः साक्षिणा' इति । रक्षःखभावादेव यः क्रूरोऽनतिलङ्घयशासनलादुर्मदतया च प्रसह्य निराक्रियमाणः क्रोधस्तस्यैतत्तावत्स्वचित्तवृत्तिसमुचितमनुष्ठापकलं नाम । मान्योऽपि कश्चिन्ममाज्ञां लङ्घयिष्यति । त इति । यया तादृगपि तथा न गणितस्तस्यास्तवेत्यर्थः । तदपि तथा अविकारेणोत्सवापत्तिबुद्ध्या नेत्रविस्तारिकामुखप्रसादादिलक्ष्यमाणया सोढं यथा येन प्रकारेणेदानींतनकुलवधूजन इति यः कश्चित्पामरप्रायोऽपि कुलवधूशब्दवाच्य उच्चैः शिरो धत्ते । एवंविधाः किल वयं कुलवध्वो भवाम इति । अथ च शिरःकर्तनावसरे त्वया शीघ्रं कृन्त्यतामिति तथा सोढं तथोचैः शिरो धृतं यथान्योऽपि कुलस्त्रीजन उच्चैः शिरो धत्ते नित्यप्रवृत्ततया । एवं रावणस्य तव च समुचितकारिखं नियूंढम् । मम पुनः सर्वमेवानुचितं पर्यवसितम् । तथाहि राज्यनिर्वासनादिनिरवकाशीकृतधनुर्व्यापारस्यापि कलत्रमात्ररक्षणप्रयोजनमपि यच्चापमभूत्तत्संप्रति त्वय्यरक्षितायामेव निष्प्रयोजनम् । तथापि च तद्धारयामि । तन्नूनं निजजीवितरक्षवास्य संभाव्यते । तद्युक्तं रामेणेत्यसमसाहसत्वसत्यसंधत्वानुचितकारिखादिव्यङ्ग्यधर्मान्तरपरिणतेनेत्यर्थः । 'कापुरुषादिधर्मपरिग्रहस्त्वादिशब्दात्' इति यद्याख्यातं तदसत् । कापुरुषस्य ह्येतदेव प्रत्युतोचितं स्यात् । प्रिय इति शब्दमात्रमेवैतदिदानी संवृत्तम् । प्रियशब्दस्य प्रवृत्तिनिमित्तं यत्प्रेमनाम तदप्यनौचित्यकलङ्कितमिति शोकालम्बनोद्दीपनविभागयोगात्करुणरसो रामस्य स्फुटीकृत इति । एमेअ
१. 'यथा वा तस्यैव' ग-पुस्तके नास्ति. २. 'व्यञ्जकत्व' क-ख. ३. 'व्यङ्ग्यार्थसंक्रमित' क-ख.
१. “विस्तारिता' क-ख. २. 'लक्षणया' क-ख. ३. 'अरक्षितव्यापन्नायामेव' ग. ४. 'न चैतद्युक्तं' क-ख.