SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ३ उड्योतः] ध्वन्यालोकः। अविवक्षितवाच्यस्य पदवाक्यप्रकाशता । . तदन्यस्यानुरणनरूपव्यङ्गयस्य च ध्वनेः ॥१॥ अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये खंप्रभेदे पदप्रकाशता यथा महर्षासस्य–'सप्तैताः समिधः श्रियः' । यथा वा कालिदासस्य-'कः नेति । किं च यद्यप्यर्थो व्यञ्जकस्तथापि व्यङ्ग्यतायोग्योऽप्यसौ भवतीति । शब्दस्तु न कदाचिद्यङ्ग्यः । अपि.तु व्यञ्जक एवेति । तदाह-व्यञ्जकमुखेनेति । न च वाच्यस्याविवक्षितादिरूपेण यो भेदस्तत्र सर्वथैव व्यञ्जकमुखवं नास्तीति पुनःशब्देनाह । व्यञ्जकमुखेनापि भेदः सर्वथैव न न प्रकाशितोऽधुना पुनः शुद्धव्यञ्जकमुखेन । तथाहि व्यङ्ग्यमुखप्रेक्षितया विना पदं वाक्यं वर्णाः पदभागः संघटना महावाक्यमिति खरूपत एव व्यञ्जकानां भेदः न चैषामर्थवत्कदाचिदपि व्यङ्ग्यता संभवतीति व्यञ्जकैकनियतं खरूपं यत्तन्मुखेन भेदः प्रकाश्यत इति तात्पर्यम् । यस्तु व्याचष्टे-'व्यङ्ग्यानां वस्त्रलंकाररसानां मुखेन' इति स एवं प्रष्टव्यः-एतत्तावत्रिभेदलं न कारिकाकारेण कृतम् । 'वृत्तिकारेण तु दर्शितम् । न चेदानी वृत्तिकारो मेदप्रकटनं करोति । ततश्चेदं कृतमिदं क्रियत इति कर्तृभेदे का संगतिः । न चैतावता सकलप्राक्तनग्रन्थसंगतिः कृता भवति । अविवक्षितवाच्यादीनामपि प्रकाराणां दर्शितवादित्यलं निजपूर्वजसगोत्रैः साकं विवादेन । चकारः कारिकायां यथासंख्यशङ्कानिवृत्त्यर्थः । तेनाविवक्षितवाच्यो द्विप्रभेदोऽपि प्रत्येकं पदवाक्यप्रकाश इति द्विधा । तदन्यस्य विवक्षिताभिधेयस्य संबन्धी यो द्वितीयो भेदः क्रमद्योत्यो नाम खभेदसहितः सोऽपि प्रत्येकं द्विधैव । अनुरणनेन रूपाणां सादृश्यं यस्य तादृग्व्यङ्ग्यं यत्तस्यत्यर्थः । महर्षरित्यनेन तदनुसंधत्ते यत्प्रागुक्तम् । अथ च रामायणमहाभारतप्रभृतिनि लक्ष्य दृश्यत ईति। 'धृतिः क्षमा दया शौचं कारुण्यं वागनिष्ठुरा । मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥' समिच्छब्दार्थस्यात्र सर्वथा तिरस्कारोऽसंभवात् । समिच्छब्देन च व्यङ्गथेनानन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां वक्रभिप्रेतं ध्वनितम् । यद्यपि 'निःश्वासान्ध इवादर्शः-' इत्याद्युदाहरणादप्ययमर्थो लभ्यते तथापि प्रसङ्गाबहुलक्ष्यव्यापिवं दर्शयितुमुदाहरणान्तराण्युक्तानि । अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य योजिनीयः किं पुनरुक्तेन । संनद्धपदेन चात्रासंभवात्स्वार्थेनोद्धतलं लक्षयता वऋभिप्रेता निष्कारुणिकलाप्रतिकार्यखाप्रेक्षापूर्वकारित्वादयो ध्वन्यन्ते । तथैव मधुरशब्देन सर्व विषयिरञ्जकत्वदर्पकवादिकं लक्षयता सातिशयाभिलाषविषयत्वमिति वऋभिप्रेतं १. 'प्रभेदे' ग. १. 'अपि तस्य' ग. २. 'व्यञ्जकलमुखं' क-ख. ३. 'संभाव्यते' क-ख. ४. 'प्रतिपादितत्वात्' ग. ५. 'रूपेण' ग. ६. 'यत्र' क-ख. ७. 'संबध्यते' क-ख. ८. 'इति वृत्तिः क्षमा दानं तपः शौचं' क-ख. ९. 'उदाहरणानां' क-ख. १०. 'व्यञ्जकल' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy