SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२२ काव्यमाला। सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनम् । यद्वयङ्गयस्याङ्गिभूतस्य तत्पूर्ण ध्वनिलक्षणम् ॥ ३४॥ तच्चोदाहृतविषयमेव । इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्द्योतः । . तृतीय उद्दयोतः। एवं व्यङ्गयमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेन तत्प्रकाश्यते ब्दस्यार्थः । उक्तमेव ध्वनिखरूपं तदाभासविवेकहेतुतया कारिकाकारोऽनुवदतीत्यभिप्रायेण वृत्तिकृदुपस्कारं ददाति-यतश्चेति । अवभासनमिति । भावानयने द्रव्यानयनमिति न्यायादवभासनं व्यङ्ग्यम् । ध्वनिलक्षणं ध्वनेः स्वरूपम् । पूर्ण भासनं तद्धनेर्लक्षणं प्रमाणम् । तच पूर्ण पूर्णध्वनिखरूपनिवेदकत्वात् । अथ वा ज्ञानमेव ध्वनिलक्षणम् । लक्षणस्य ज्ञानपरिच्छेद्यत्वात् । वृत्तावेवकारेण ततोऽन्यस्य चाभासरूपत्वमेवेति सूचयता तदाभासविवेकहेतुभावो यः प्रक्रान्तः स एव निर्वाहित इति शिवम् । प्राच्यं प्रोल्लासमात्रं स्याद्भेदेनामन्यते यया । वन्देऽभिनवगुप्तोऽहं पश्यन्ती तामिदं जगत् ॥ इति श्रीमहामाहेश्वराचार्यवैर्याभिनवगुप्तोन्मीलिते सहृदयलोक (ध्वन्यालोक)लोचने ध्वनिसंकेते द्वितीय उद्दयोतः। स्मरामि स्मरसंहारलीलापाटवशालिनः । प्रसह्य शंभोर्दैहाध हरन्तीं परमेश्वरीम् ॥ उद्योतान्तरसंगतिं कर्तुमाह वृत्तिकारः–एवमित्यादि । तत्र वाच्यमुखेन तावदविवक्षितवाच्यादयो भेदाः । वाच्यं च यद्यपि व्यञ्जकमेव । यथोक्तम्-'यत्रार्थः शब्दो वा-' इति । ततश्च ..... मुखेनापि भेद उक्तः । तथापि स वाच्योऽर्थो व्यङ्ग्यमुखेनैव भिद्यते । तथा ह्यविवक्षितवाच्यो व्यङ्गयो न्यग्भावितः । विवक्षितान्यपरवाच्य इति व्यङ्ग्यार्थप्रवण एवोच्यते । इत्येवं मूलभेदयोरेव यथाखमवान्तरभेदसहितयोर्व्यञ्जकरूपोऽर्थः स व्यङ्ग्यमुखे प्रेक्षिताशरणतयैव भेदमासादयति । अत एवाह-व्यङ्ग्यमुखे १. 'श्रीमदानन्द' क-ख. २. 'काव्यालोके' क-ख. 'सहृदयालोके' ग. ३. 'एतप्रकाशते' ग. १. 'सर्व शिवम्' ग. २. 'प्राज्यं' ग. ३. 'अभिनवगुप्तविरचिते काव्यालोकलोचने' ग. ४. 'अत्र' क-ख. ५. 'ततश्च...-भिद्यते' क-ख-पुस्तकयोनास्ति. ६. 'तथाप्यविवक्षितो वाच्ये व्यङ्गयेन' क-ख. ७. 'विवक्षितोऽन्यपरो' क-ख. .. .
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy