________________
२ उद्द्योतः ]
ध्वन्यालोकः ।
अत्र ह्यविनयपतिना सह रममाणा सखी बहिःश्रुतवलयकलकलया सख्या प्रतिबोध्यते । एतदपेक्षणीयं वाच्यार्थप्रतिपत्तये । प्रतिपन्ने च वाच्ये तस्याविनयप्रच्छादनतात्पर्येणाभिधीयमानत्वात्पुनेर्व्यञ्ज्याङ्गत्वमेवेत्यस्मिन्ननुरणनरूपव्यङ्गयध्वनावन्तर्भावः ।
एवं विवक्षितवाच्यस्य ध्वनेस्तदाभासविवेके प्रस्तुते सत्यविवक्षितवाच्यस्यापि तं कर्तुमाह
१२१
अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ॥ ३३ ॥ स्खलद्गतेरुपचरितस्य शब्दस्यान्युत्पतेरशक्तेर्वा निबन्धो यः स च न ध्वनेर्विषयः । यैतश्च
I
1
द्धतया अवचनीय एव सोऽर्थः स्यादिति यावत् । नन्वेवं व्यङ्ग्यस्योपस्कारता प्रत्युक्ता भवेदित्याशङ्क्याह—प्रतिपन्ने चेति । शब्दे दत्त इति यावत् । तदाभासविवेके प्रस्तुत इति । सप्तमी हेतौ । तदाभासविवेकप्रस्तावलक्षणात्प्रसङ्गादिति यावत् । कस्य तदाभास इत्यपेक्षायामाह - विवक्षितवाच्यस्येति । स्पष्टे तु व्याख्याने प्रस्तुत इत्यसंगतम् । परिसमाप्तौ हि विवेक्षिताभिधेयस्य तदाभासविवेकः । न त्वधुना प्रस्तुत................मनुबध्नाति । स्खलद्गतेरिति । गौणस्य लाक्षणिकस्य वा शब्दस्येत्यर्थः । अव्युत्पत्तिरनुप्रासादिनिबन्धनतात्पर्य प्रवृत्तिः । यथा – 'प्रेङ्खत्प्रेमप्रबन्धप्रचुरपरिचयप्रौढसीमन्तिनीनां चित्ताकाशावकाशे विहरति सततं यः स सौभाग्यभूमिः । ' अत्रानुप्रासरसिकतया प्रेङ्खदिति लाक्षणिकः, चित्तमाकाश इति गौणः प्रयोगः कविना कृतोऽपि न ध्वन्यमानरूपसुन्दर प्रयोजनांशपर्यवसायी । अशक्तेर्वृत्तपरिपूरणाद्यसामर्थ्यात् । यथा- —'विषमकाण्डकुटुम्बकसंचयप्रवर वारिनिधौ पतता वया । जलतरङ्गविघूर्णितभाजने विचलितात्मनि कुड्यमये कृताः ॥' अत्र प्रवरान्तमाद्यपदं चन्द्रमस्युपचरितम् । भाजनमित्याशये कुड्यमय इत्यविचले कामपि कान्ति न पुष्यति । ऋते वृत्तभरणात् । स चेति । प्रथमोद्द्योते यः प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवय इत्यत्र 'वदति बिसिनीपत्रशयनम्' इत्यादि भाक्तम् । स न केवलं ध्वनेर्विषयो यावदयमन्योऽपीति चश
१. 'वाच्यार्थे' क-ख. २. ‘व्यङ्ग्यत्वमेव' क- ख. ३. 'एवंविधवाच्यस्य ग. ४. 'तत्कर्तुं' क- ख. ५. 'अशक्तेरव्युत्पत्तेः' क- ख. ६. 'यतः' ग.
१. 'शब्दोऽर्थ इति' क-ख. २. ‘विवक्षितवाच्येत्यर्थः ' क- ख. ३. 'प्रभृतिः ' क. ख. ४. 'अशक्य — द्यसमर्थम्' क-ख. ५. 'आद्यं कृतं पादं ' ग. ६. ' इत्यादिरक्ततिक्तः' क-ख.