SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२० . काव्यमाला। यथा 'वाणीरकुडङ्गोड्डीणसउणिकोलाहलं सुणन्तीए । __ घरकम्मवावडाए वहुए सीअन्ति अगाइं ॥' एवंविधो हि विषयः प्रायेण गुणीभूतव्यङ्गयस्योदाहरणत्वेन निर्देक्ष्यते । यत्र तु प्रकरणादिप्रतिपत्त्या निर्धारितविशेषो वाच्योऽर्थः पुनः प्रतीयमानाङ्गत्वेनैवावभासते सोऽस्यैवानुरणनरूपव्यङ्गयस्य ध्वनेर्मार्गः । यथा 'उचिणसु पडिअ कुसुमं मा धुण सेहालिअं हलिअसुढे । अह दे विसमविरावो ससुरेण सुओ वलअसद्दो ॥' तु खात्मोपपत्तयेऽर्थान्तरं खोपस्कारवाञ्छया व्यनक्ति । 'वेतसलतागहनोड्डीनशकुनिकोलाहलं शृण्वन्त्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥' [इति च्छाया।] अत्र दत्तसंकेतचौर्यकामुकरतसमुचितस्थानप्राप्तिर्वन्यमाना वाच्यमेवोपस्कुरुते । तथा हि गृहकर्मव्यापृताया इत्यन्यपराया अपि, वध्वाः इति सातिशयलजापारतन्त्र्यबद्धाया अपि, अङ्गानीत्येकमपि न तादृगङ्गं यद्गाम्भीर्यावहित्थवशेन संवरीतुं पारितम् , सीदन्तीत्यास्तां गृहकर्मसंपादनं खात्मानमपि धर्तुं न प्रभवतीति । गृहकर्मयोगेनै स्फुटं तथा लक्ष्यमाणानीति । अस्मादेव वाच्यात्सातिशयमदनपरवशताप्रतीतेश्चारुत्वसंपत्तिः । यत्र त्विति । प्रकरणमादिर्यस्य शब्दान्तरसंनिधानसामर्थ्यलिङ्गोदेस्तदपगमादेव यत्रार्थों निश्चितसमस्तभावः पुनर्वाच्यः पुनरपि स्वशब्देनोक्तोऽत एव खात्मावगतेः संपन्नपूर्वखादेव तावन्मात्रपर्यवसायी न भवति तथाविधश्च प्रतीयमानस्याङ्गतामेति सोऽस्य ध्वनेविषय इत्यनेन व्यङ्ग्यतात्पर्यनिबन्धनं स्फुटं वदता व्यङ्ग्यगुणीभावे खेतद्विपरीतमेव निबन्धनं मन्तव्यमित्युक्तं भवति । 'उच्चिनु पतितानि कुसुमानि मा धुनीः शेफालिका हालिकानुषे । एष ते विषमविरावः श्वशुरेण श्रुतो वलयशब्दः ॥ [इति च्छाया।] यतः श्वशुरः शेफालिकालतिकां प्रयत्नै रक्षंस्तस्या आकर्षणधूननादिना कुप्यति तेनात्र विषमपरिपाकलं मन्तव्यम् । अन्यथा वोक्त्यैव व्यङ्ग्याक्षेपः स्यात् । अत्र च 'कस्स वा ण होइ रोसो-' इत्येतदनुसारेण व्याख्या कर्तव्या । वाच्यार्थस्य प्रतिपत्तये लाभाय एतयङ्ग्यमपेक्षणीयम् । अन्यथा वाच्योऽर्थो न लभ्यते । खतःसि १. 'हि' क-पुस्तके नास्ति. २. 'व्यङ्ग्यत्वस्य' ग. १. 'खोपकार' ख. २. 'ध्वन्यमानवाच्यस्येव' ग. ३. 'योगे. च' ग. ४. 'मदनावसरवशता' क-ख. ५. 'लिङ्गादेव यत्र' क-ख. ६. 'पूर्णखादेव' क-ख. ७. 'तात्पर्येतिबन्धनं स्फुटं दधता' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy