________________
२ उड्योतः]
ध्वन्यालोकः।
रस्यालंकारस्य वा प्रकाशने चारुत्वोत्कर्षनिबन्धने सति प्राधान्येऽर्थशक्त्युद्भवानुरणनरूपव्यङ्गयो ध्वनिरवगन्तव्यः । एवं ध्वनेः प्रभेदान्प्रतिपाद्य तदाभासविवेकं कर्तुमुच्यते- .
यत्र प्रतीयमानोऽर्थः प्रक्लिष्टत्वेन भासते । .. वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः॥ ३२ ॥
द्विविधोऽपि प्रतीयमानः स्फुटोऽस्फुटश्च । तत्र य एव स्फुटः शब्दशक्त्यार्थशक्त्या वा प्रकाशते स एव ध्वनेर्मार्गो नेतरः । स्फुटोऽपि योऽभिधेयस्याङ्गत्वेन प्रतीयमानोऽवभासते सोऽस्यानुरणनरूपव्यङ्ग्यस्य ध्वनेरगोचरः। यथा
'कमलाअरा ] मलिआ हंसा उड्डाविआ ण अ पिउच्छा। केण वि गामतडाए अब्भं उत्ताणअं फेलिहम् ॥' अत्र हि प्रतीयमानस्य मुग्धवध्वा जलधरप्रतिबिम्बदर्शनस्य वाच्याङ्गत्वमेव । एवंविधे विषयेऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोस्कर्षप्रतीत्या प्राधान्यमवसीयते तत्र व्यङ्गस्याङ्गत्वेन प्रतीते नेरविषयत्वम् ।
द्विप्रकारलाच्चतुर्विधोऽयमर्थशक्त्युद्भव इति तात्पर्यम् । एवमिति । अविवक्षितवाच्यो विवक्षितान्यपरवाच्य इति द्वौ मूलभेदौ । औद्यस्य द्वौ भेदौ-अत्यन्ततिरस्कृतवाच्योऽर्थान्तरसंक्रमितवाच्यश्च । द्वितीयस्य द्वौ मेदौ-अलक्ष्यक्रमोऽनुरणनरूपश्च । प्रथमोऽनन्तभेदः । द्वितीयो द्विविधः-शब्दशक्तिमूलोऽर्थशक्तिमूलश्च । पश्चिमस्त्रिविधः-कविप्रोढोक्तिकृतशरीरः कविनिबद्धवक्तृप्रौढोक्तिकृतशरीरः स्वतःसंभवी च । ते च प्रत्येक व्यङ्ग्यव्यञ्जकयोरुक्तभेदनयेन चतुर्धति द्वादशविधोऽशक्तिमूलः । आद्यस्य चत्वारो भेदा इति षोडश मुख्यभेदाः । ते च पदवाक्यकारवेन प्रत्येकं द्विविधा वक्ष्यन्ते । अलक्ष्यक्रमस्य तु वर्णपदवाक्यसंघटनाप्रबन्धप्रकाश्यत्वेन पञ्चत्रिंशद्भेदाः । तदाभासेभ्यो ध्वन्याभासेभ्यो विवेको विभागः । अस्येत्यात्मभूतस्य ध्वनेरसौ काव्यविशेषो न गोचरः । 'कमलाकरा न मलिता हंसा उड्डायिता न च (सहसा) पितृष्वसः । केनापि ग्रामतडागेऽभ्रमुत्तानितं क्षिप्तम् ॥' [इति च्छाया।] अन्येहो (2) पिउच्छा पितृध्वसा इत्थमामन्यते । केनाप्यतिनिपुणेन । वाच्याङ्गत्वमेवेति । वाच्येनैव हि विस्मयविभावरूपेण मुग्धिमातिशयः प्रतीयत इति वाच्यादेव चारुखसंपत् । वाच्यं
१. 'प्रश्लिष्टलेन' क, 'प्रम्लिष्टलेन' ख. २. 'व्बूढं' इति गाथासप्तशतीधृतः पाठः.
१. 'इत्थं' क-ख. २. 'प्रथमस्य' ग. ३. 'प्रकाशकवेन' क-ख. ४. 'अलक्ष्यक्रमात्तु' क-ख.