________________
११८
काव्यमाला अलंकाराणां द्वयी गतिः कदाचिद्वस्तुमात्रेण व्यज्यन्ते कदाचिदलंकारेण । तत्र
व्यज्यन्ते वस्तुमात्रेण येदालंकृतयस्तदा । '' 'ध्रुवं ध्वन्यङ्गता तासां .. अत्र हेतु:
. काव्यवृत्तेस्तदाश्रयात् ॥ ३०॥ यस्मात्तत्र तथाविधव्यङ्ग्यालंकारपरत्वेनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्वाक्यमात्रमेव स्यात् । तासामेवालंकृतीनाम्
अलंकारान्तरव्यङ्ग्यभावे पुनः,
ध्वन्यङ्गता भवेत् । चारुत्वोत्कर्षतो व्यङ्गयप्राधान्यं यदि लक्ष्यते ॥३१॥
उक्तं ह्येतत्—'चारुत्वोत्कर्षनिबन्धना वाच्यव्यङ्गययोः प्राधान्यविवक्षा' इति । वस्तुमात्रव्यङ्गयत्वे चालंकाराणामनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तदेवमर्थमात्रेणालंकारविशेषरूपेण वार्थेनॉर्थान्त
कष्टसंपाद्या । कुङ्कुमपीतिकाया इव । आत्मतायास्तु का संभावनापि । एवंभूता चेयं व्यङ्ग्यता यदप्रधानभूतापि वाच्यमात्रालंकारेभ्य उत्कर्षमलंकाराणां वितरति । बालक्रीडायामपि राजत्वमिवेत्यमुमर्थ मनसि कृत्वाह-तत्रेति । द्वय्यां गतौ सत्याम् । अत्र हेतुरित्ययं वृत्तिग्रन्थः । काव्यस्य कविव्यापारस्य वृत्तिस्तदाश्रयालंकारप्रेवणा । अन्यथेति । यदि तत्परत्वमित्यर्थः । तेन तत्र गुणीभूतव्यङ्ग्यता नैव शयेति तात्पर्यम् । तासामेवालंकृतीनामित्ययं पठिष्यमाणकारिकोपस्कारः । पुनरिति कारिकामध्य उपस्कारः। ध्वन्यङ्गतेति । ध्वनिभेदकत्वमित्यर्थः। व्यङ्ग्यप्राधान्यमिति । अत्र हेतुः-चारुत्वोत्कर्षत इति । यदीति । तदप्राधान्ये तु वाच्यालंकारा एव प्रधानमिति गुणीभूतव्यङ्ग्यतेति भावः । नन्वलंकारो वस्तुना व्यज्यते अलंकारा.........त...... इत्यत्रोदाहरणानि किमिति न दर्शितानीत्याशङ्कयाह-वस्त्विति । एतत्संक्षिप्योपसंहरति-तदेवमिति । व्यङ्ग्यस्य व्यञ्जकस्य च प्रत्येकं वस्त्रलंकाररूपतया
१. 'अलंकारान्तरेण' क-ख. २. 'यत्र' क-ख. ३. 'पुनः' क-ख-पुस्तकयोर्नास्ति. ४. 'उन्नतव्यः' ग. ५. 'वस्वन्तरस्य' क-ख.
१. 'तथाश्रया' क. २. 'प्रणयतः' ग. ३. 'अलंकारा......त......' क-ख. पुस्तकयो स्ति.