________________
२ उद्द्योतः ]
ध्वन्यालोकः
एवमलंकारध्वनिमार्ग व्युत्पाद्य तस्य प्रयोजनवत्तां
मुच्यते
११७
ख्यापयितुमिद
शरीरीकरणं येषां वाच्यत्वेन व्यवस्थितम् ।
dsलंकाराः परां छायां यान्ति ध्वन्यङ्गतां गताः ॥ २९ ॥ ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद्व्यङ्ग्यत्वेनेत्यवगन्तव्यम् । व्यङ्ग्यत्वेऽप्यलंकाराणां प्राधान्यविवक्षायामेव सत्यां ध्वनावन्तःपातः । इतरथा तु गुणीभूतव्यङ्ग्यत्वं प्रतिपादयिष्यते । अङ्गित्वेन व्यङ्ग्यतायामपि ।
पमेयोपमाध्वनिरपि । एवमन्येऽप्यत्र भेदाः शक्योत्प्रेक्षाः । महाकविवाचोऽस्याः कामधेनुत्वात् । यतः— 'हेलापि कस्यचिदचिन्त्यफलप्रसूत्यै कस्यापि नालमणवेऽपि फलाय यत्नः । दिग्दन्तिरोमचलनं धरणीं धुनोति खात्संपतन्नपि लतां चलयेन्न भृङ्गः ॥' एषां तु भेदानां संसृष्टित्वं संकरत्वं च यथायोगं चिन्त्यम् । अतिशयोक्तिध्वनिर्यथा ममैव —— केलीकन्दलितस्य विभ्रममधोर्धुर्यं वपुस्ते दृशौ भङ्गीभर कामकार्मुकमिदं भ्रूनर्मकर्मक्रमः । आपातेऽपि विकारकारणमहो वक्राम्बुजन्मासवः सत्यं सुन्दरि वेधसत्रिजगतीसारस्त्वमेकाकृतिः ॥ ' अत्र हि मधुमासमदनासवानां त्रैलोक्ये सुभगतान्योन्यं परिपोषकत्वेन । ते तु त्वयि लोकोत्तरेण वपुषा संभूय स्थिता इत्यतिशयोक्तिर्ध्वन्यते । आपातेऽपि विकारकारणमित्यास्वादनपरम्पराक्रिययापि विना विकारात्मनः फलस्य संपत्तिरिति विभावनाध्वनिरपि । विभ्रममधोर्धर्यमिति तुल्ययोगिताध्वनिरपि । एवं सर्वालंकाराणां ध्वन्यमानत्वमस्तीति मन्तव्यम् । न तु यथा कैश्चिन्नियतविषयीकृतम् । यथायोगमिति । क्वचिदलंकारः क्वचिद्वैस्तु व्यञ्जकमित्यर्थो योजनीयः । ननूक्तास्तावच्चिरंतनैरलंकारास्तेषां तु भवता यदि व्यङ्ग्यत्वं प्रदर्शितं किमियतेत्याशक्याह - एवमित्यादि । येषामलंकाराणां वाच्यत्वेन शरीरीकरणं शरीरभूतात्प्रस्तुतादर्थादर्थान्तरभूततया अशरीराणां कटकादिस्थानीयानां शरीरतापर्यन्तं न व्यवस्थितं सुकवीनामयत्नतः संपाद्यतया यदि वाच्यत्वेन शरीरीकरण..... सति येषां शरीरतापादनमपि न व्यवस्थितं दुर्घटमिति यावत् । तेऽलंकारा ध्वनेर्व्यापारस्य काव्यस्याङ्गतां व्यङ्ग्यरूपतया गताः सन्तः परां दुर्लभां छायामात्मरूपतां यान्ति । एतदुक्तं भवति — सुकविर्विदग्धपुरंध्रीवद्भूषणं यद्यपि ष्टिं योजयति तथापि शरीरतापत्तिरेवस्य
१. 'व्यङ्ग्याङ्गत्वं प्रकाशिष्यते' ग.
१. 'शाखी' ग. २. 'तेन' ग. ३. 'परम्परयापि' क-ख. ४. 'कथंचित्' क- ख. 'वस्तुमात्रं ' ग. ६. 'योजनीयाः ' क-ख. ७. 'शरीरतापादनमपि' क-ख. ८. 'अतिक्लिष्टं' ग. ९. ' तावदस्य काव्यस्य कष्टसाध्या' क- ख.
५.