________________
१२६
काव्यमाला |
तस्यैवार्थान्तरसंक्रमितवाच्यस्य वाक्यप्रकाशता यथा'विसंमइओ चिअ काण वि काण वि वालेइ अमिअमओ । काण वि विसामिअमओ काण वि अविसामओ कालो || अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसंक्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसंक्रमितवाच्यस्यास्य व्यञ्जकत्वम् । विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पदप्र
काशता यथा
'प्रातुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस्तडागः कूपोऽथदा किं न जडः कृतोऽहम् ॥'
-
तात्पर्यम् । एवं च पश्यत इति वचनं न स्वार्थमात्रविश्रान्तम् । अपि तु व्यङ्ग्य एव विश्राम्यति । यत्तच्छब्दयोश्च न खतन्त्रार्थतेति सर्व एवायमाख्यातसहायः पदसमूहो व्यङ्ग्यपरः । तदाह – अनेन हि वाक्येनेति । प्रतिपाद्यत इति । ध्वन्यत इत्यर्थः । तथा विषमयो विषमयतां प्राप्तः । केषांचिद्दुष्कृतिनामतिविवेकिनां वा । केषांचित्सुकृतिनामत्यन्तविवेकिनां वातिक्रामत्यमृतमयनिर्वाणः । केषांचिन्मिश्रकर्मणां विवेकाविवेकवतां वा विषामृतमयः । केषामपि मूढप्रायाणां धाराप्राप्तयोग भूमिकारूढानां वा अविषामृतमयः कालोऽतिक्रामतीति संबन्धः । विषामृतपदे च लावण्यादिशब्दवन्निरूढलक्षणरूपतया सुखदुःखसाधनयोर्वर्तेते । विषं निम्बममृतं कपित्थमिति (वत्) । न चात्र सुखदुःखसाधने तन्मात्रविश्रान्ते । अपि तु स्वकर्तव्य सुखदुःखपर्यवसितेन च ते साधनेन सर्वथा विवक्षिते । निःसाधनयोस्तयोरत्राभावात् । तदाह – संक्रमितवा - च्याभ्यामिति । केषांचिदिति वाच्यविशेषसंक्रान्तिः । अतिक्रामतीत्यस्य च.................. - मात्र संक्रान्तिः । काल इत्यस्य च सर्वव्यवहारसंक्रान्तिः । उपलक्षणार्थं तु विषमृतलक्ष`णमात्र संक्रान्तिरिति वृत्तिकृता व्याख्यातम् । तदाह - वाक्यमिति । एवं कारिकाप्रथमार्धलक्षितांश्चतुरः प्रकारानुदाहृत्य द्वितीयकारिकार्धस्वीकृतान्षडन्यान्प्रकारान्क्रमेणोदाहरति—विवक्षिताभिधेयस्येत्यादिना । प्रातुमिति पूरयितुम् । धनैरिति बहुवचनं यो यो येनार्थी तस्य तेनेति सूचनार्थम् । अतएवार्थिग्रहणम् । जनस्येति बाहुल्येन
१. 'विषमय इव केषामपि केषामपि प्रयात्यमृतमयः । केषामपि विषामृतमयः केषामप्यविषामृतः कालः ॥ इति च्छाया. २. 'संक्रान्त' क ख. ३. 'त्रातुं' क-ख.
१. 'एवं पश्यत इति मुनेरिति च न स्वार्थ' क ख २. 'व्यापारः' ख. ३. 'मूर्खलम्भप्रायाणां’ ग. ४. ‘अति - व्यवहारसंक्रान्तिः ' क ख - पुस्तकयोर्नास्ति. ५. 'विषामृतग्रहणमात्र संक्रमणमात्रं ' क-ख. ६. ' त्रातुमिति' क-ख.