________________
३ उच्योतः ]
ध्वन्यालोकः ।
१२७
अत्र हि जड इति पदं निर्विण्णेन वक्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां वशक्त्या प्रतिपद्यते ।
तस्यैव वाक्यप्रकाशता यथा हर्षचरिते सिंहनादवाक्येषु — 'वृतेऽस्मि - न्महाप्रलये धरणीधारणायाधुना त्वं शेषः ।
एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति । अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे पदप्रका - शता यथा हरिविजये—
'चूअङ्कुरावअंसं छणपसरमहं घणमहुरामोअम् । असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहम् ॥' अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसम - - र्पितमित्येतदवस्थाभिधायिपदमर्थशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति ।
1
हि लोको धनार्थी । न तु गुणैरुपकारार्थी । दैवेनेति । अशक्यपर्यनुयोगेनेत्यर्थः । जडः किंकर्तव्यतामूढ इत्यर्थः । अथ कूपो जडो योऽर्थिता कस्य कीदृशीत्यसंभवद्विवेक इति । अत एव जडः शीतलो निर्वेदसंतापरहितः । तथा जडः सततजलयोगितया परोपकारा-समर्थोऽस्मीति । अन्यो हि तावदवश्यं कश्चित्सृष्टो न त्वहमिति निर्वेदः । प्रसन्नं लोकोपयोगि अम्बु धारयतीति । कूपोऽथवेति । लोकैरप्यलक्ष्यमाण इत्यर्थः । आत्मसमानाधिकरणतयेति । अनेन तृतीयार्थे नायं जडशब्दस्तटाकार्थेन पुनरुक्तार्थं संबन्ध इत्यभिप्रायेणाह - कूप समानाधिकरणतामिति । खशक्त्येति शब्दशक्त्युद्भवलं द्योतयति । महाप्रलय इति । महानासमन्तान्प्रलयो यत्र तादृशि शोककारणभूते वृत्ते धरण्या राज्यधुराया धारणायाश्वासनाय त्वं शेषः शिष्यमाणः । इतीयता पूर्णे वाक्यार्थे कल्पावसाने भूपीठभारोद्वहनक्षम एको नागराज एव दिग्दन्तिप्रभृतिष्वपि प्रलीनेष्वित्यर्था -- न्तरम् । 'चूताङ्कुरावतंसं क्षणप्रसरमहद्धनमधुरामोदम् । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मी मुखम् ॥' अत्र महच्छब्दस्य परनिपातः प्राकृते नियमाभावात् । क्षण उत्सवः । ( महोत्सव प्रसरेणेत्यर्थः ) । मुखं प्रारम्भो वक्रं च । तच्च सुरामोदयुक्तं भवति । मध्वारम्भे कामश्चित्तमाक्षिपतीत्येतावानयमर्थः कविप्रौढोक्त्यार्थान्तरव्यञ्जकः संपादितः । अत्र कविनिबद्धवक्तृप्रौढोक्तिशरीरार्थशक्त्युद्भवे पदवाक्यैप्रकाशतायामुदाहरणद्वयं न दत्तम् । 'प्रौढोक्तिमात्रनिष्पन्नशरीरः संभवी स्वतः । ' इति प्राच्यकारि -- काया इयतैवोदाहृतत्वं भवेदित्यभिप्रायेणेति । तेत्र पदप्रकाशता यथा - 'सत्यं मनोरमाः
1
१. ' इत्येतत्' क-ख. २. 'अपणामअं वि' क-ख. ३. 'लक्षयति' क- ख.
१. 'प्रकाशतया ' ग. २. 'अत्र' ग.