________________
१२८
काव्यमाला। अत्रैव प्रभेदे वाक्यप्रकाशता । यथोदाहृतं प्राक् 'सज्जेहि सुरहिमासो' इत्यादि । अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्मादकतापादनावस्थानं वसन्तसमयस्य सूचयति ।
खेतःसंभविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा'वाणिअअ हत्तिदन्ता कुत्तो अमाण वाघकित्ती अ। जाव लुलिआलअमुही घरम्मि परिसक्कए सुला ।' अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः खतःसंभावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसंभोगक्षामतां प्रकाशयति ।
तस्यैव वाक्यप्रकाशता यथा. 'सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमइ ।
मुत्ताफलरइअपसाहणाण मज्झे सवत्तीणम् ॥' अनेनापि वाक्येन व्याधवध्वा शिखिपिच्छकर्णपूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते । तत्संभोगकाले स एव व्याधः करिवरवधव्यापारसमथे आसीदित्यथेप्रकाशनात् ।
कामाः सत्यं रम्या विभूतयः । किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥' इत्यत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दोऽर्थशक्तिमूलतयेदं ध्वनयति-सर्व एवामी कामा विभूतयश्च जीवितमात्रोपयोगिनः । तदभावे हि सद्भिरपि तैरसद्रूपताप्यते । तदेव च जीवितं प्राणधारणरूपत्वात्प्राणवृत्तेश्च चाञ्चल्यादनास्थापदमिति विषयेषु वराकेषु किं दोषोद्घोषणदौजन्येन । निजमेव जीवितमुपालभ्यम् । तदपि वा निसर्गचञ्चलमिति न सापराधमित्येतद्गाढं वैराग्यमिति । वाक्यप्रकाशता यथा-'शिखरिणि-' इत्यादौ । 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥' [इति च्छाया। ] अत्र लुलितेति स्वरूपमात्रेण विशेषणमविलुप्ततया च हस्तिदन्ताद्यपहरणं संभाव्यमिति वाक्यार्थस्य तावत्येव न काचिदनुपपत्तिः । सिहिपिच्छेति । पूर्वमेव योजिता गाथा । नन्विति । समुदाय एव
१. 'वस्थानात्' क-ख. २. 'संभावितार्थ' ग. ३. 'सूचयति तदीयस्य' ग. ४. 'अपि' क-ख-पुस्तकयो स्ति. ५. 'प्रख्याप्यते' ग. ६. 'प्रदर्शनात्' ग.
१. 'इत्येतावत्' ग. २. 'इत्यादि' ग. ३. 'परिष्वक्ते सविभ्रमं चंक्रम्यते' ग. ४. 'अवलिप्ततया' ग. ५. 'वाच्यार्थस्य' ग.