________________
१८६
ति चेदुच्यते - अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यं ध्वनौ तावदभिधेयस्य तत्सा - मर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तर विलक्षणतयात्यन्तविलक्षणे ये प्रतीती तयोरशक्यनिद्दवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यम् । यथा प्रथमोक्ष्यते प्रतीयमानार्थसिद्ध्यर्थमुदाहृतासु गाथासु । तथाविधे च विषये वाच्यव्यङ्ग्ययोरत्यन्त विलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तम् । शब्दशक्तिमूलानुरणनरूपव्यन्ये तु ध्वनौ 'गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु' इत्यादावर्थद्वयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुपमावाचकपदविरहे सत्यर्थसामर्थ्यादाक्षिप्तेति । तत्रापि सुलक्ष्यमभिधेयव्यनघालंकारप्रतीत्योः पौर्वापर्यम् ।
काव्यमाला ।
पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्ययेऽपि ध्वनौ विशेषणपदस्योभयार्थसंबन्धयोग्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादवस्थितमित्यत्रापि पूर्ववदभिधेयतत्सामर्थ्याक्षिप्तालंकारमात्र प्रतीत्योः सुस्थितमेव पौर्वा - पर्यम् । आर्थ्यापि च प्रतिपत्तिस्तथाविधे विषये उभयार्थ संबन्धयोगा शब्दसामर्थ्य प्रतिप्रसवभूतेति शब्दशक्तिमूला कल्प्यते । अविवक्षितवाच्यस्य तु ध्वनेः प्रसिद्धखविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रकाशनमिति नियम
I
1
— नत्रापीति । स्फुटमेवेति । 'अविवक्षितवाच्यस्य पदवाक्यप्रकाशता । तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥' इति हि पूर्वं वर्णसंघटनादिकं नास्य व्यजकत्वेनोक्तमिति भावः । गाथास्खिति । 'भम धम्मिअ--' इत्यादिकासु । ताश्च तथैव व्याख्याताः । शाब्द्यामिति । शाब्द्यामपीत्यर्थः । उपमावाचको यथैवादिः । अर्थसामर्थ्यादिति । वाक्यार्थसामर्थ्यादिति यावत् । एवं वाक्यप्रकाशमात्रशक्तिमूलं विचार्य पदप्रकाशं विचारयति - पदप्रकाशेति । विशेषणपदस्येति जड इत्यस्य । योजकमिति यथेवादिकम् । योजनमिति कुप इति (?) अहमिति चोभयसमानाधिकरणतया योजनम् । अभिधेयं च तत्सामर्थ्याक्षिप्तं च तयोरलंकारमात्रयोः प्रतीतयोः पौर्वापर्यं क्रमः । सुस्थितं सुलक्षितमित्यर्थः । मात्रग्रहणेन रसप्रतीतिस्तत्राप्यलक्ष्यक्रमैवेति दर्शयति । नैन्वेवमार्थत्वं शब्दशक्तिमूलत्वं चेद्विरुद्धमित्याशङ्कयाह – आर्ध्यपीति । नात्र विरोधः कश्चिदिति भावः । एतच्च वितत्य पूर्वमेव निर्णीतमिति न पुनरुच्यते । स्वविषयेति । अन्धशब्दादेरुपहतचक्षुष्कादिः खो विषयः । तत्र यद्वैमुख्यमनादर
1
·
१. ‘विलक्षणस्य ये प्रतीती' क ख २. 'अपि ध्वनौ' ग-पुस्तके नास्ति. ३. 'प्रतिपत्त्योः' ग. ४. 'शब्दमूला' ग.
१. ‘व्यञ्जनादिकं’ ग. २. 'संवलनम्' ग. ३. 'नन्वेकं' ग.