________________
३ उद्योतः ]
ध्वन्यालोकः ।
१८७
भावी क्रमः । तत्रापि विवक्षितवाच्यत्वादेव वाच्येन सह व्यङ्ग्यस्य क्रमप्रतीतिविचारो न कृतः । तस्मादभिधानाभिधेयप्रतीत्योरिव वाच्यव्यमय प्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः । स तूक्तर्युक्त्या कचिल्लक्ष्यते क्वचिन्न लक्ष्यते । तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कबिडूयात् — किमिदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थप्रकाशनम् । नहि व्यञ्जकत्वं व्यङ्ग्यत्वं चार्थस्यापि व्यञ्जकसिद्ध्यधीनं व्यङ्ग्यत्वम् । व्यङ्ग्यापेक्षया च व्यञ्जकत्वसिद्धिरित्यन्योन्यसंश्रयादव्यवस्थानम् । ननु वाच्यव्यतिरिक्तस्य व्यङ्ग्यस्य सिद्धिः प्रागेव प्रतिपादिता तत्सिद्ध्यधीना च व्यञ्जकसिद्धिरिति कः पर्यनुयोगावसरः । सत्यमेवैतत् । प्रागुक्तयुक्तिभिर्वाच्यव्यतिरिक्तस्य वस्तुनः
इत्यर्थः । विचारो न कृत इति । नामधेयनिरूपणद्वारेणेति शेषः । सहभावस्य शङ्कितुमप्यत्रायुक्तत्वादिति भावः । एवं रसादयः कैशिक्यादीनामिति वृत्तभागरूपाणां वृत्तीनां जीवितमुपनागरिकाद्यानां च सर्वस्यास्योभयस्यापि वृत्तिव्यवहारस्य रसादिनिय - त्रितविषयत्वादिति यत्प्रस्तुतं तत्प्रसङ्गेन रसादीनां वाच्यातिरिक्तत्वं समर्थयितुं क्रमो विचारित इत्येतदुपसंहरति — तस्मादिति । अभिधानस्य शब्दरूपस्य पूर्वं प्रतीतिस्ततोऽभिधेयस्य । यदाह तत्रभवान् – 'विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते' इत्यादि । 'अतो निर्णीतरूपत्वात्किँमाख्येत्यभिधीयते' । अत्रापि चाविनाभाववत्समयस्याभ्यस्तत्वाकमो न लक्ष्येतापि । उयोतारम्भे यदुक्तं व्यञ्जकमुखेन ध्वनेः स्वरूपं प्रतिपाद्यत इति तदिदानीमुपसंहरन्व्यञ्जकभावं प्रथमोयोते समर्थितमपि शिष्याणामेकप्रघट्टकेन हृदि निवेशयितुं पूर्वपक्षमाह—तदेवमिति । कश्चिदिति मीमांसकादिः । किमिदमिति वक्ष्यमाणचोदकस्याभिप्रायः । प्रागेवेति प्रथमोध्यो अभाववादनिराकरणे । अतश्च व्यञ्जकसिद्ध्या तत्सिद्धिर्येनान्योन्याश्रयः शङ्कयत अपि तु हेत्वन्तरैस्तस्य बाधितत्वादिवि भावः । तदाह – तत्सिद्धीति । स त्विति । अस्त्वसौ द्वितीयोऽर्थस्तस्य यदि व्यय इति नाम कृतम् वाच्य इत्यपि कस्मान्न क्रियते । अवगम्यमानत्वेन हि शब्दार्थवं तदेव वाचकत्वम् । अभिधा हि यत्पर्यन्ता तत्रैवामिधायकत्वमुचितम् । तत्पर्यन्तता (मं)मिधानभूते तस्मिन्नर्थं इति मूर्धाभिषिक्तत्वं ध्वनेर्निरूपितम् । तत्रैवाभिधाव्यापारेण
१. ‘तत्र त्वविवक्षित' क ख २. 'युक्तेः' ग.
१. 'सर्वस्याभिधेयवृत्ति' क- ख. ४. व्यङ्ग्य इति नाकूतं वाच्यमित्यपि •
२. 'निर्ज्ञात' ग. ३. 'किमाहेत्यमि' क्र- ख. • भिमतस्यापि कस्मात् 'ग. ५. 'सर्वा' क ख.