SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८८ काव्यमाला । सिद्धिः कृता स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते । यत्र च प्राधान्येनानवस्थानं तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः । तत्परत्वाद्वाचकत्वस्य । अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः । किं तस्य व्यापारान्तरकल्पनया । तस्मात्तात्पर्यविषयो योऽर्थः स तावन्मुख्यतया वाच्यः । या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः । सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेः । अत्रोच्यते — यत्र शब्दः स्वार्थमभिदधानोऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा । न तावदविशेषः । यस्मात्तौ द्वौ व्यापारौ भिन्नवियौ भिन्नरूपौ च प्रतीयेते एव । तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गमकत्वलक्षणस्त्वर्थान्तरविषयः । ततः खपरव्यवहारो वाच्यगम्ययोरपह्नोतुमशक्यः । एकस्य संबन्धित्वेन प्रतीतेरपरस्य संबन्धिसंबन्धित्वेन । वाच्यो ह्यर्थः साक्षाच्छब्दस्य संबन्धी तदितरस्त्वभिधेयसामर्थ्याक्षिप्तः संबन्धिसंबन्धी । यदि च स्वसंबन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तरव्यवहार एव न स्यात् । तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः । रूपभेदोऽपि प्रसिद्ध एव । नहि यैवाभिधानशक्तिः सैवावगमनशक्तिः । अवाच 1 भवितुं युक्तम् । तदाह – यत्र चेति । तत्प्रकाशिन इति । तद्यन्याभिमतं प्रकाशयत्यवश्यं यद्वाच्यं तस्येति । उपायमात्रमित्यनेन साधारणयोक्ता भाहं प्राभाकरं वैयाक - रणं च पक्षं सूचयति । भाट्टमते हि - ' वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्टानां पदार्थप्रतिपादनम् ॥' इति शब्दावगतैः पदार्थैस्तात्पर्येण योऽर्थ उत्थाप्यते स एव वाक्यार्थः स एव च वाच्य इति । प्राभाकरदर्शनेऽपि दीर्घदीर्घो व्यापारो निमित्तिनि वाक्यार्थे । पदार्थानां तु निमित्तभावः पारमार्थिक एव । वैयाकरणानां तुं सोऽपि पारमार्थिक इति विशेषः । एतच्चास्माभिः प्रथमोध्योत एव वितत्य निर्णीत'मिति न पुनरायस्यते ग्रन्थयोजनैव तु क्रियते । तदेतन्मतत्रयं पूर्वपक्षे योज्यम् । अत्रेति पूर्वपक्षे । उच्यत इति सिद्धान्तः । वाचकत्वं गमकत्वं चेति स्वरूपतो भेदः स्वार्थोऽर्थान्तरेण च क्रमेणेति विषयतः । ( नेनु तस्माच्चेदसौ गम्यतेऽर्थः कथं तर्ह्यच्य..... ....... । नो चेत्स तस्य न कश्चिदिति को विषयार्थः । शङ्कयाह - न चेदिति । तस्मादिति ) । व्यवहार एवेति । एवकारो भिन्नक्रमः । नैव स्यादित्यर्थः । तावता न साक्षादात्म संबन्धित्वं तैरयुक्तार्थस्यैक एवामिधालक्षणो व्यापार इत्याशङ्कयाह - रूपभेद इति । तंत्र भिन्नेऽपि विषये............क्षशब्दादेर्बह्वर्थोऽपीति प्रसिद्धमेव दर्शयति-नहीति । विप्र १. ‘त्वसौ न' क-ख. २. कोष्ठकान्तर्गतः पाठः क ख पुस्तकयोर्नास्ति. ३. 'यावता' क्र. ४. 'ननु' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy