SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ३ उध्योतः] ध्वन्यालोकः । १८५ तिनिमित्तं व्यञ्जकत्वं यथा गीतशब्दानां तेषामपि खरूपप्रतीतेर्व्यङ्ग्यप्रतीतेश्च नियमभावक्रमः । तत्र तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्यतत्फलघटनाखाशुभाविनीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते । कचित्तु लक्ष्यत एव । यथानुरणनरूपव्यङ्ग्यप्रतीतिषु । तत्रापि कथमिइति भावः । ननु स चेत्क्रमः किं न लक्ष्यत इत्याशङ्कयाह-तत्र विति । क्रियापौर्वापर्यमित्यनेन क्रमस्य खरूपमाह-क्रियेति । क्रिये वाच्यव्यङ्ग्यप्रतीती । यदिवामिधाव्यापारो व्यञ्जनापरपयोयो ध्वननव्यापारश्चेति क्रिये तयोः पौर्वापर्यं न प्रतीयते । क्वेत्याह-रसादौ विषये । कीशि । अभिधेयान्तरादभिधेयविशेषाद्विलक्षणे । सर्वथैवानभिधेयेनानेन भवितव्यं तावत्क्रमेणेत्युक्तम् । तथा वाच्येनाविरोधिनि । विरोधिनि तु लक्ष्यत एवेत्यर्थः । कुतो न लक्ष्यते इति निमित्तसप्तमीनिर्दिष्टं हेवन्तरगर्भ हेतुमाहआशुभाविनीष्विति । अन्यसाध्यतत्फलघटनासु । घटनाः पूर्व माधुर्यादिलक्षणाः प्रतिपादिता गुणनिरूपणावसरे। ताश्च तत्फलाः रसादिप्रतीतिः फलं यासाम् , तथा नान्यत्तदेव साध्यं यासाम् । नह्योजोघटनायाः करुणादि प्रतीतिः साध्या । एतदुक्कं भवति-यतो गुणवति काव्ये संकीर्ण विषयतया संघटना प्रयुक्ता ततः क्रमो न लक्ष्यते। ननु भवत्वेवं संघटनायां स्थितिः क्रमस्तु किं न लक्ष्यते तदा आशुभाविनीषु वाच्यप्रतीतिकालप्रतीक्षणेन विनैव झटित्येव रसादीन्भावयन्ति । तदाखादं विदधतीत्यर्थः । एतदुक्तं भवति-संघटना व्यङ्ग्यवाद्रसादीनामनुपयुक्तेऽप्यर्थविज्ञाने पूर्वमेवोचिता संघटनाश्रयण एव यत आसूत्रितो रसास्वादस्तेन वाच्यप्रतीत्युत्तरकालभवेन परिस्फुटाखादयुक्तोऽपि पश्चादुत्पन्नत्वेन भाति । अभ्यस्ते हि विषये विभावप्रतीतिक्रम इत्थमेव न लक्ष्यते । अभ्यासो ह्ययमेव यत्प्रणिधानादिनापि विनैव संस्कारबलवत्त्वात्सदैव प्रबुभुत्सुतया स्थापनमित्येवं यत्र धूमस्तत्राग्निरिति हृदयस्थितवायाप्तेः पक्षधमज्ञानमात्रमेवोपयोगि भवतीति परामर्शस्थानमाक्रमति । झटित्युत्पन्नेऽपि धूमज्ञाने तद्याप्तिस्मृत्युपकृतेस्तद्विजातीयप्रणिधानानुसरणादिप्रतीत्यन्तरानुप्रवेश विरहादाशुभाविन्यामनिप्रतीतौ क्रमो न लक्ष्यते तद्वदिहापि । यदि तु वाच्याविरोधी रसो न स्यादुचिता च घटना न भवेत्तलक्ष्येतैव क्रम इति । चन्द्रिकाकारस्तु पठितमनुपठतीति न्यायेन गजनिमीलिकया व्याचचक्षे-तस्य तस्य शब्दस्य फलं तद्वा फलं वाच्यव्यङ्ग्यप्रतीत्यात्मकं तस्य घटना निष्पादना यतोऽनन्यसाध्या शब्दव्यापारैकजन्येति । नचात्रार्थसतत्त्वं व्याख्यानेन किंचिदुत्पश्याम इत्यलं पूर्ववंश्यैः सह विवादेन बहुना । यत्र तु संघटनाव्यङ्ग्यत्वं नास्ति तत्र वक्ष्यत एवेत्याह-क्वचित्त्विति । तुल्ये व्यङ्ग्यत्वे कुतो मेद इत्याशझ्याह १. 'व्यङ्ग्यप्रतीतेश्च' ग-पुस्तके नास्ति. २. 'भावी' क-ख. ३. 'तत्तु शब्दक्रिया' क-ख. ४. 'वाच्याविरोधिनि' क-ख. १. "क्रियते इति क्रिया वाच्य' काख. २. 'यथा चान्येन' क-ख. ३. 'भवति' क-ख. ४. 'अभ्यस्तं हि विषयं विनाभावप्रतीति' क-ख. ५. 'व्यङ्ग्यवादि' कख. ६. 'लक्ष्यते' क-ख.. १७ ध्व. लो.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy