SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८४ काव्यमाला। अत्रापि ब्रूमः-प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकम् । किं तु तव्यञ्जकत्वं तेषां कदाचित्खरूपविशेषनिबन्धनं कदाचिद्वाचकशक्तिनिबन्धनम् । तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव खरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिशक्तिनिबन्धनम् । अथ तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव । स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते । यदि च वाच्यप्रतीतिमन्तरेणैव प्रकरणाद्यवच्छिन्नशब्दमात्रसाध्या रसादिप्रतीतिः स्यात्तदनवधारितप्रकरणानां वाच्यवाचकभावे च खयमव्युत्पन्नानां प्रतिपत्तॄणां काव्यमात्रश्रवणादेवासौ भवेत् । सहभावे च वाच्यप्रतीतेरनुपयोगः उपयोगे वा न सहभावः । येषामपि खरूपविशेषप्रती दृश्यते तदेतदाह-न चेति । तेषामिति गीतादिशब्दानाम् । आदिशब्देनास्य वाद्यविलपितशब्दादयो निर्दिष्टाः । अनुमतमिति । 'यत्रार्थः शब्दो वा-' इति ह्यवोचामेति भावः । न तहीति । तत्तद्गीतपदे चार्थावगमं विनैव रसावभासः स्यात्काव्यशब्देभ्यः, न चैवमिति वाचकशक्तिरपि तथापेक्षणीया । सा च वाच्यनिष्टैवेति प्राग्वाच्ये प्रतिपत्तिरित्युपगन्तव्यम् । तदाह-अथेति । तदिति वाचकशक्तिः । वाच्यवाचकभावेति । सैव वाचकशक्तिरित्युच्यते । एतदुक्तं भवति-मा भूद्वाच्यं रसादिव्यञ्जकम् , अस्तु शब्दादेव तत्प्रतीतिस्तथापि तेन स्ववाचकशक्तिस्तस्यां कर्तव्यायां सहकारितयावश्यापेक्षणीयेत्ययं वाच्यप्रतीतेः पूर्वभावित्वमिति । ननु गीतशब्दवदेव वाचकशक्तिरित्यत्राप्यनुपयोगिनी । यत्तु क्वचिच्छृतेऽपि काव्ये रसप्रतीतिर्न भवति तत्रोचितः प्रकरणावगमादिः सहकारी नास्तीत्याशङ्ख्याह-यदि चेति । प्रकरणावगमो हि क उच्यते किं वाक्यान्तरसहायत्वम् , अथ वाक्यान्तराणां संबन्धिवाच्यम् । उभयपरिज्ञानेऽपि न भवति प्रकृतवाक्यार्थभेदेन रसोदयः । स्वयमिति । प्रकरणमात्रमेव परेण केनचियेषां व्याख्यातमिति भावः । न चान्वयव्यतिरेकवती वाच्यप्रतीतिमपहृत्यादृष्टसद्भावाभावी शरणत्वेनाश्रितौ मात्सर्यादधिकं किंचित्पुष्णीत इत्यभिप्रायः । नन्वस्तु वाच्यप्रतीतेरुपयोगः क्रमाश्रयेण किं प्रयोजनम् , सहभावमात्रमेव ह्युपयोग एकसामग्र्यधीनतालक्षण इत्याशङ्कयाह-सहेति । एवं ह्युपयोग इति संज्ञाकरणमात्रं वस्तुशून्यं स्यादिति भावः । उपकारिणो हि पूर्वभावितेति त्वयाप्यङ्गीकृतमित्याह—येषामिति । त्वदृष्टान्तेनैव वयं वाच्यप्रतीतेरपि प्रतिपादयिष्याम १. 'कारणाद्यव' ख. २. “विषय' क-ख. ३. 'प्रतीत्यनुनिष्पन्नं' क-ख. ४. 'प्रकाराद्यवच्छिन्नमात्र' क-ख. ५ 'प्रकाराणां' क-ख. १. 'ततश्च गीतवादे' क-ख. २. 'सैव हि वाचकशक्तिरित्युच्यते' क-ख. ३. 'समर्थयिष्यामहे' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy