________________
३ उक्ष्योतः] ध्वन्यालोकः।
१८३ रत्ने रत्नखरूपानतिरिक्तत्वमेव तस्य लक्ष्यते तया रसानां विभावानुभावादिरूपांच्यव्यतिरिक्तत्वमेव लक्ष्यते । न चैवम् । नहि विभावानुभावव्यभिचारिण एव रसा इति कस्यचिदवगमः । अतएव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेन व्यवस्थानाक्रमोऽवश्यंभावी । स तु लाघवान्न प्रकाश्यते 'इत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादयः' इत्युक्तम् । ननु शब्द एव प्रकरणाद्यवच्छिन्नो वाच्यव्यङ्गययोः सममेव प्रतीतिमुपजनयतीति किं तत्र क्रमकल्पनया । न हि शब्दस्य वाच्यप्रतीतिपरामर्श एव व्यञ्जकत्वे निबन्धनम् । तथा हि गीतादिशब्देभ्योऽपि रसाधभिव्यक्तिरस्ति । न च तेषामन्तरा वाच्यपरामर्शः ।
न रूपवज्जात्यत्वस्य । अत्यन्तलीनस्वभावत्वात् । रसादीनां चोन्ममतास्येवेत्येवं केचिदेतं ग्रन्थमनैषुः । अस्मद्गुरवस्वाहुः-अत्रोच्यत इत्यनेनेदमुच्यते-यदि रसादयो वाच्यानां धर्मास्तथापि द्वौ पक्षौ । रूपादिसदृशा वा स्युर्माणिक्यगतजात्यत्वसदृशा वा । न तावप्रथमः पक्षः । सर्वान्प्रति तथानवभासात् । नापि द्वितीयः । जात्यत्ववदनतिरिक्तवेनाप्रकाशनात् । एष च हेतुरायेऽपि पक्षे संगच्छत एव । तदाह-स्यान्मतमित्यादिना न चैवमित्यन्तेन । एतदेव समर्थयति-नहीति । अतएव चेति । यतो न वाच्यधर्मखेन रसादीनां प्रतीतिः । यतश्च यत्प्रतीतौ वाच्यप्रतीतिः । सर्वथानुपयोगिनी तत एव हेतोः क्रमेणावश्यं भाव्यम् । सहभूतयोरुपकारयोगात् । स तु सहृदयभावनाभ्यासान लक्ष्यते अन्यथा तु लक्ष्येतापीत्युक्तं प्राक् । यस्यापि प्रतीति विशेषात्मैव रस इत्युक्तिः । प्राक्तनस्यापि व्यपदेशिवत्त्वाद्रसादीनां प्रतीतिरित्येवमन्यत्र । ननु भवन्तु वाच्या दतिरिक्ता रसादयस्तत्रापि क्रमो लक्ष्यत इति तावत्त्वयैवोक्तम् । तत्कल्पने च प्रमाणं नास्ति । अन्वयव्यतिरेकाभ्यामर्थप्रतीतिमन्तरेण रसप्रतीत्युभयस्य पदविरहितस्वराला-. पगीतादौ शब्दमात्रोपयोगकृतस्य दर्शनात् । ततश्चैकयैव सामग्र्या सहव वाच्यं व्यङ्ग्याभिमतं च रसादि भातीति वचनव्यञ्जनव्यापारद्वयेन न किंचिदिति तदाह-नन्विति । यत्रापि गीतशब्दानामर्थोऽस्ति तत्रापि तत्प्रंतीतिरुपयोगिनी । ग्रामरागानुसारेणापहस्तितवाच्यानुसारतया रसोदयदर्शनात् । न चापि स सर्वस्य भवतीति
१. 'रसादीनामपि' ग. २. 'वाच्यानति' ग. ३. 'व्यवस्थापनात्' क-ख.
१. 'एवेति केचिदन्थं' क-ख. २. क-ख-पुस्तकयोः “अस्मद्गुरवः' इत्यारभ्य 'स्यादिति' इत्यन्तः पाठः 'प्रथमम्' इत्यारभ्य 'ग्रन्थमनैषुः' इत्यन्तः पाठश्चानन्तरं वर्तते. ३. 'तथा सति' ग. ४. 'स्यादिति' क-ख. ५. 'प्राक्तन-त्वयैवोक्तम्' इति पाठो ग-पुस्तके नास्ति. ६. 'पदविग्रहखरालापानां शब्द' क-ख. ७. 'प्रतीतिस्तदनुपयोगिनी' क-ख. ८. 'सर्वत्र भवन्तीति' ग.