SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८२ काव्यमाला। रसाधनुगुणत्वेन व्यवहारोऽर्थशब्दयोः । औचित्यवान्यस्ता एता वृत्तयो विविधाः स्मृताः ॥ ३३ ॥ व्यवहारो हि वृत्तिरित्युच्यते । तत्र रसानुगुण औचित्यवान्वाच्याश्रयो यो व्यवहारस्ता एताः कैशिक्याद्या वृत्तयः । वाचकाश्रयाश्चोपनागरिकाद्याः । वृत्तयो हि रसादितात्पर्येण संनिवेशिताः कामपि नाट्यस्य काव्यस्य चें च्छायामावहन्ति । रसादयो हि द्वयोरपि तयोर्जीवभूताः । इतिवृत्तादि तु शरीरभूतमेव । अत्र केचिदाहुः—'गुणगुणिव्यवहारो रसादीनामितिवृत्तादिभिः सह न तु जीवशरीरव्यवहारः । रसादिमयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्भूतम्' इति । अत्रोच्यते-यदि रसादिमयमेव वाच्यं यथा गौरत्वमयं शरीरम् । एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयोऽपि सहदयस्यासहृदयस्य च प्रतिभासेरन् । न चैवम् । तथा चैतत्प्रतिपादितमेव प्रथमोहयोते स्यान्मतम् । रत्नानामिव जात्यत्वं प्रतिपत्तविशेष(तः) संवेद्यं वाच्यानां रसादिरूपत्वमिति । नैवम् । यतो यथा जात्यत्वेन प्रतिभासमाने दावित्यादिग्रहणादलंकारशास्त्रेषु परुषाया वृत्तय इत्युक्तं भवति । द्वयोरपि तयोरिति । वृत्तिलक्षणयोर्व्यवहारयोरित्यर्थः । जीवभूता इति । 'वृत्तयः काव्यमातृकाः' इति ब्रुवाणेन मुनिना रसोचितेतिवृत्तसमाश्रयेणोपदेशेन रसस्यैव जीवितत्वमुकम् । भामहादिभिश्च-स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते । प्रथमालीढमधवः पिबन्ति कटुभेषजम् ॥' इत्यादिना रसोपयोगिजीवितः शब्दवृत्तिलक्षणो व्यवहार उक्तः । • शरीरभूतमिति । 'इतिवृत्तं हि नाट्यस्य शरीरं-' इति मुनिः । नाट्यं च रस एवेत्युक्तप्रायम् । गुणगुणिव्यवहार इति । अत्यन्तसंमिश्रतया प्रतिभासनाद्धर्मधर्मिव्यवहारो युक्तः । न त्विति । क्रमस्यासंवेदनादिति भावः । प्रथमेति । 'शब्दार्थ. शासनज्ञानमात्रेणैव न वेद्यते।' इत्यादिना प्रतिपादितमदः । ननु यद्यस्य धर्मरूपं तत्त तिभाने सत्यस्य नियमेन मातीत्यनैकान्तिकमेतत् । माणिक्यधर्मो हि जात्यत्वलक्षणो विशेषो नेत्याशङ्कते-स्यादिति । एतत्परिहरति-नैवमिति । एतदुक्तं भवति-अत्यन्तोन्मिश्रस्वभावले सति तद्धर्मवादिति विशेषणमस्माभिः कृतम् । उन्ममरूपता च १. 'द्विविधाः स्थिताः' क-ख. २. 'वृत्तिरुच्यते' ग. ३. 'कैशिक्यादयः' ग. ४. 'वा' क-ख. ५. 'तत्रैवम्' क, 'तन्नैवम्' ख. १. 'दिप्रभृतयः' क-ख. २. 'युञ्जते' ग. ३. 'प्रतिभासे सर्वस्य' क-ख. ४. 'अत्यन्तोन्मम' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy