SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ટ काव्यमाला न च स्मृतिरियम् । अननुभूतेस्तदयोगानियमाप्रतिपत्तेर्वक्तुरेतदे विवक्षितमित्यध्यवसायाभावप्रसङ्गाचेत्यस्ति तावदत्र शब्दस्यैव व्यापारः । व्यापारश्च नाभिधात्मा । समयाभावात् । न तात्पर्यात्मा तस्यान्वयप्रतीतावेव परिक्षयात् । न लक्षणात्मा । उक्तादेव हेतोः स्खलद्गतित्वाभावात् । तत्रापि हि स्खलद्गतिले पुनर्मुख्यार्थबाधानिमित्तं प्रयोजनमित्यनवस्था स्यात् । अत एव यत्केनचिल्लक्षितलक्षणेति नाम कृतं तयसनमात्रम् । तस्मादभिघातात्पर्यलक्षणव्यतिरिक्तश्चतुर्थोऽसौ व्यापारो ध्वननँद्योतनव्यञ्जनप्रत्यायनावगमनादि सोदरव्यपदेशनिरूपितोऽभ्युपगन्तव्यः । यद्वक्ष्यति — 'मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥' इति । तेन समयापेक्षा वाच्यावगमशक्तिरभिधाशक्तिः । तदन्यथानुपपत्तिसहायार्थावबोधनशक्तिस्तात्पर्यशक्तिः । मुख्यार्थबाधादि सहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणाशक्तिः । तच्छक्तित्रयोपजनितार्थावगममूलजीततत्प्रतिभापवित्रितंप्रतिपत्ते प्रतिभासहायार्थद्योतनशक्तिर्ध्वननव्यापारः । स च प्राग्वृत्तं व्यापारत्रयं न्यक्कुर्वन् प्रधानम् । अत एव काव्यात्मत्याशयेन विधिनिषेधप्रमुखतया च प्रयोजनविषयोऽपि निषेधविषय इत्युक्तः । अभ्युपगममात्रेण चैतदुक्तम् । न त्वत्र लक्षणात्यन्ततिरस्कृता । अन्यसंक्रमणयोरभावात् । नार्थशक्तिमूलेऽस्या व्यापारः । सहकारि मेदाच्च शक्तिभेदः स्पष्ट एव । तथा तस्यैव शब्दस्य व्याप्तिस्मृत्यादिसहकृतस्य विवक्षावगतावनुमापकत्वव्यापारः । अक्षादिसँहकृतस्य वा विकल्पत्वव्यापारः । एवमभिहितान्वयवादिनामिये दैनपह्नवनीयम् । योऽयन्विताभिधानवादी ‘यत्परः शब्दः स शब्दार्थः' इति हृदेये गृहीला शरखदभिधाव्यापारमेव दीर्घदीर्घमिच्छति तस्य यदि दीर्घदीर्घो व्यापारस्तदेकोऽसाविति कुतः । भिन्नविषयत्वात् । अथानेकोऽसौ तद्विषयसहकारिमेदादसजातीय एवं युक्तः । सजातीये च कौर्ये विरम्यव्यापारः शब्दकर्मबुद्ध्यादीनां पदार्थविद्भिर्निषिद्धः । असजातीये चस्मिन्नय एव । अथ योऽसौ चतुर्थकक्षानिविष्टोऽर्थः स एव झटिति वाक्येनाभिधीयत इत्येवंविधं दीर्घदीर्घत्वं विवक्षितम् । तर्हि तत्र संकेताकरणात्कथं साक्षात्प्रतिपत्तिः । निमित्तेषु · १. ‘नियम्याप्रति’ ग. २. 'वक्तुरेवं विवक्षितं' क-ख. ३. 'एव' क-ख-पुस्तकयोर्नास्ति. ४. 'न' ग-पुस्तके नास्ति. ५. 'स्खलितगतिला' ग. ६. 'हि' क-ख-पुस्त - कयोर्नास्ति. ७. 'द्योतन' ग-पुस्तके नास्ति. ८. 'सहायार्थबोधन' क ख. ९. 'तच्छक्तिबाधोपजनित' ग. १०. 'ज्ञाततत्प्रतिभास' ग. ११. 'प्रतिपत्त' क-पुस्तके नास्ति. १२. 'प्रभा' ग. १३. 'प्रधानभूतः काव्यात्मे' ग. १४. ' इत्युक्तम्' ग. १५. ‘चेदमुक्तम्' ग. १६. 'सहकृत्य वा' ग. १७. ' तावदियमनपह्नवनीयं' ग. १८. 'यो ह्यन्विता' ग. १९. 'हृदये' ग-पुस्तके नास्ति २०. 'एव' ग-पुस्तके नास्ति. २१. ‘कार्ये’ क· ख- पुस्तकयोर्नास्ति. २२. 'च' ग-पुस्तके नास्ति २३. 'स ‘इति झडिति' क-ख. २४. 'तत्र तर्हि ' क- ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy