SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १ उक्ष्योतः] ध्वन्यालोकः। संकेतः नैमित्तिकस्वसावर्थ इति संकेतानपेक्ष ऐवेति चेत्, पैश्यत श्रोत्रियस्यानुवाकहतबुद्धरुक्तिकौशलम् । यो ह्यसौ पर्यन्तकक्षाभांगार्थः प्रथमं प्रतीतिपथमवतीर्णस्तस्य पश्चात्तनाः पदार्था निमित्तभावं गच्छन्तीति नूनं मीमांसकस्य प्रपौत्रं प्रति नैमित्तिकखमभिमतम् । अथोच्यते-पूर्व तत्र संकेतग्रहणसंस्कृतस्य तथा प्रतिपत्तिर्भवतीत्यमुया वस्तुस्थित्या निमित्तवं पदार्थानाम् , तर्हि तदनुसारानुपयोगेन न किंचिदप्युक्तं स्यात् । न चापि प्राक्पदार्थेषु संकेतँग्रहणं वृत्तम् । अन्वितानामेव सर्वदा प्रयोगात् । आवापोद्वापाभ्यां तथाभाव इति चेत्, संकेतः पदार्थमात्र एवेत्यभ्युपगमे पाश्चात्यैव विशेषप्रतीतिः । अथोच्यते-दृष्टैव झडिति तात्पर्यप्रतिपत्तिः किमंत्र कुर्म इति तदिदं वयमपि न नाङ्गीकुर्मः । यद्वक्ष्यामः-'तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् । बुद्धौ तत्त्वावभासिन्यां झडित्येवावभासते ॥ इति । किं तु सातिशयानुशीलनाभ्यासातत्र संभाव्यमानोऽपि क्रमः सजातीयतद्विकल्पपरम्परानुदयादभ्यस्तविषयव्याप्तिसमयस्मृतिक्रमवन्न संवेद्यत इति निमित्तनैमित्तकभावश्चावश्याश्रयणीयः । अन्यथा गौणलाक्षणिकयोर्मुख्याद्भेदः 'श्रुतिलिङ्गादिप्रमाणषट्वस्य परदौर्बल्यम्' इत्यादि प्रक्रियाविघातो निमित्ततावैचित्र्येणैवास्याः सामर्थ्यान्निर्निमित्ततावैचित्र्ये चाभ्युपगते किमपरमस्माखसूयया । येऽप्यविभक्तं स्फोटं वाक्यं तदर्थरूपमित्याहुस्तैरप्यविद्यापदपतितैः सर्वेयमनुसरणीया प्रक्रिया । तदुत्तीर्णले तु सर्वं परमेश्वराद्वयं ब्रह्मेत्यस्मच्छास्त्रानुसरणेन विदितं तत्रालोकग्रन्थं विचारयतेत्यास्ताम् । यत्तु भट्टनायकेनोक्तम्-'इह दृप्तसिंहादिपर्दैप्रयोगेऽपि धार्मिकपदप्रयोगे च भयानकरसावेशकृतैव निषेधावगतिः । तदीयभीरुधीरखप्रकृतिनियमावगममन्तरेणैकान्ततो निषेधगत्यभावात्' इति, तेन्न । केवलार्थसाम. र्थ्यान्निषेधगतेनिमित्तमिति, तत्रोच्यते-केनोक्तमेतत् , 'वक्तृप्रतिपत्तृविशेषावगमविरहेण शब्दगतध्वननव्यापारविरहेण च निषेधावगतिः' इति । वक्तृप्रतिपत्तप्रतिभासहकारिवं ह्यस्माभिर्योतनस्य प्राणखेनोक्तम् । भयानकरसावेशश्च नै वर्ण्यस्य । भयमात्रोत्पत्त्य भ्युपगमात् । प्रतिपत्तुश्च रसावेशो रसाभिव्यक्त्यैव । रसस्य च शब्दवाच्यखं तेनापि नोपगतमिति व्यङ्ग्यत्वमेव । प्रतिपत्तुरपि रसावेशो न नियतः । नह्यसौ नियमेन ___१. 'इति' ग-पुस्तके नास्ति. २. 'एव' ग-पुस्तके नास्ति. ३. 'पश्य' क-ख. ४. 'भागार्थः' ग. ५. पदार्थावगमनिमित्त' ग. ६. 'आगच्छन्तीति' ख. ७. 'तदनुरणनोपयोगि न तदप्युक्तं' ग. ८. 'संबन्धग्रहणं' ग. ९. 'सदा' क-ख. १०. 'अत्र' ग-पुस्तके नास्ति. ११. 'अपि न' क-ख-पुस्तकयो स्ति. .१२. 'तत्त्वार्थदर्शिन्यां' ग. १३. 'स्मृतिं तमवन्न' ग. १४. 'प्रक्रियाविकल्पास्तन्निमित्त' ग. १५. 'समर्थितत्वात्' ग. १६. 'स्फोटकवाक्यं तदर्थमाहुः' ग. १७. 'परमेश्वराद्वयं ब्रूमहे इत्यमच्छास्त्राकारणेन न विदितं तत्त्वालोक' ग. १८. 'पदयोगेऽपि' क-ख. १९. 'भीरुख' ग. २०. 'तत्र' ख. २१. 'न निवार्यते । तस्य' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy