________________
१ उक्ष्योतः]
ध्वन्यालोकः। तथापि द्वितीयस्थानसंक्रान्ताभावादसौ न भवति । तथा हि मुख्यार्थबाधायां लक्षणाप्रक्लप्तिः । सा च विरोधप्रतीतिरेव । न चात्र पदार्थानां खात्मनि विरोधः । परस्पर विरोध इति चेत्, सोऽयं तन्वये विरोधः प्रत्येयः । न च प्रतिपन्नेऽन्वये विरोधप्रतीतिः । प्रतिपत्तिश्चान्वयस्य नाभिधाशक्त्या । तस्याः पदार्थप्रतिपत्त्युपक्षीणाया विरम्यव्यापारात् इति तात्पर्यशक्त्यैवान्वयप्रतिपत्तिः । नन्वेवमैपि 'अङ्गुल्यो करिवरशतम्। इत्यत्राप्यन्वयप्रतीतिः स्यात् । किं न भवत्यन्वयप्रतीतिः । देशदाडिमादिवाक्यवत् । किं तु प्रमाणान्तरेण सोऽन्वयः प्रत्यक्षादिना बाधितः प्रतिपन्नोऽपि शुक्तिकायां रजतमिवेति तदवगमकारिणो वाक्यस्याप्रामाण्यम् । 'सिंहो माणवकः' इत्यत्र द्वितीयकक्षानिविष्टतात्पर्यशक्तिसमर्पितान्वयबाधकोल्लासनानन्तरमभिधातात्पर्यशक्तिद्वयव्यतिरिक्ता तावत्तृतीयैव शक्तिस्तद्वाधकशक्तिविधुरीकरणनिपुणा लक्षणाभिधाना समुल्लसति । नन्वेवं 'सिंहो बटुः' इत्यत्रापि काव्यरूंपता स्यात् । ध्वननलक्षणस्यात्मनोऽत्रापि समनन्तरं वक्ष्यमाणतया भावात् । ननु घटेऽपि जीवव्यवहारः स्यात् । आत्मनो विभुखेन तत्रापि भावात् । शरीरस्य खलु विशिष्टाधिष्ठानयुक्तस्य सत्यात्मनि जीवव्यवहारः। ने यस्य कस्यचिदिति चेत्, गुणालंकारौचित्यसुन्दरशब्दार्थशरीरस्य सति वननात्मन्यात्मनि काव्यरूपताव्यवहारः । न चात्मनोऽसारता काचिदिति समानम् । न चैवं भक्तिरेव ध्वनिः। भक्तिर्हि लक्षणाव्यापारस्तृतीयकक्षानिवेशी । चतुर्थ्यां तु कक्षायां ध्वननव्यापारः । तथा हि त्रितयसंनिधौ लक्षणा प्रवर्तत इति तावद्भवन्त एव वदन्ति । तत्र मुख्यार्थबाँधता तावत्प्रत्यक्षादिप्रमाणान्तरमूला । निमित्तं च यदभिधीयते सामीप्यादि तदपि प्रमाणान्तरावगम्यमेव । यत्त्विदं घोषस्यातिपवित्रत्वशीतलखसेव्यैवादिकं प्रयोजनमशब्दान्तरवाच्यं प्रमाणान्तराप्रतिपन्नम् , बटोर्वा पराक्रमातिशयशालिवं तत्र शब्दस्य तावन्न व्यापारः । तथाहि तत्सामीप्यात्तद्धर्मवानुमानमैनैकान्तिकम् , सिंहशब्दवाच्यवं च बटोरसिद्धम् । अथ यत्र यत्रैवंशब्दप्रयोगस्तत्र तत्र तद्धर्मयोग इत्यनुमानान्तरं कथं तथापि व्याप्तिग्रहणकाले मौलिकं प्रमाणान्तरं वौच्यं च नास्ति ।
१. 'लक्षणायां' क. २. 'बाधा च' ग. ३. 'अपि' ग-पुस्तके नास्ति. ४. 'दशदाडिमानि, षडपूपाः, कुण्डमजाजिनम् , पललपिण्डः, अधरोरुकमेतत्कुमार्याः, स्फैयकृतस्य पिता प्रतिशीनः, इति समुदायोऽत्रानर्थकः ।' इति व्याकरणमहाभाष्यम् (१।२।४५). ५. 'एवेति' ग. ६. 'तदपगम' ग. ७. 'तावत्' ग-पुस्तके नास्ति. ८. 'रूपवं' ग. ९. 'ध्वनिलक्षण' ग. १०. 'समनन्तरमेव लक्ष्यमाण' ग. ११. 'न घटेऽपि' क. १२. 'अन्यस्य कस्यचिदिति' ग. १३. 'गुणालंकारोचिल' ग-पुस्तके नास्ति. १४. 'ध्वन्याख्ये आत्मनि' ग. १५. 'तथाहीति' ग. १६. 'तावद्भवतां मतम्' ग. १७. 'बाधा' ग. १८. 'सेव्यत्वादिकं प्रयोजनं सशब्दान्तरावाच्यं' क, 'सेव्यखादिशब्दान्तरवाच्यं' ग. १९. 'पदेन वा' ग. २०. 'न तावन्न' ग. २१. 'अनैकान्तिकलं' ग. २२. 'इत्यनुमानं तस्यापि' ग. २३. 'वाच्यं' क-ख-पुस्तकयो स्ति।
३ ध्व० लो.