SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६२ काव्यमाला । ईत्यत्र रामशब्दः । अनेन हि व्यङ्गयधर्मान्तररूपपरिणतः संज्ञी प्रत्याय्यते, न संज्ञामात्रम् । यथा च ममैव विषमबाणलीलायाम् - ' तौला जाअन्ति गुणा जाला दे सहिअएहिँ घेप्पन्ति । रइकिरणानुग्गहिआइँ होन्ति कमलाइँ कमलाई ।' अत्र द्वितीयः कमलशब्दः । इत एव प्रभृति प्रियतमां हृदये निधायैव खात्मवृत्तान्तं तावदाह - कामं सन्त्विति । दृढमिति सातिशयम् । कठोरहृदय इति । रामशब्दार्थध्वनिविशेषावकाशदानाय कठोरहृदयपदम् । यथा 'तहं' इत्युक्तेऽपि 'नतभित्ति' इति अन्यथा रामपदं दशरथकुलोद्भवत्वकौसल्यास्नेहपात्रत्वबाल्य चैरितजानकीला भादिधर्मान्तरपरिणतमर्थं कथं ने ध्वनेदिति । अस्मीति । स एवाहं भवामीत्यर्थः । भविष्यतीति क्रियासामान्यम् । तेन किं करिष्यतीत्यर्थः । अथ च भवनमेवास्या असंभाव्यमित्युक्तप्रकारेण हृदयनिहितां प्रियां स्मरणशब्दविकल्पपरम्परया प्रत्यक्षी भावितां हृदयस्फोटनोन्मुखीं ससंभ्रममाह - हहाहेति । देवीति । युक्तं तव धैर्यमित्यर्थः । अनेनेति । रामशब्देनानुपयुज्यमानेनार्थेनेति भावः । व्यङ्गयं धर्मान्तरप्रयोजनरूपं राज्यनिर्वासनाद्यसंख्येयम् । तच्चासंख्यत्वादभिधाव्यापारेणाशक्यसमर्पणम् । क्रमेणार्प्यमाणमप्येकधी विषयभावाभावान्न चित्रचर्वणापदमिति न चारुत्वातिशयकृत् । प्रतीयमानं तु तदसंख्यमनुद्भिन्नविशेषत्वेनैव किं किं रूपं न सहत इति चित्रपानकरस धूपगुंडमोदकस्थानीयविचित्रचर्वणापदं भवति यथोक्तम् —– 'उक्त्यन्तरेणाशक्यं यत्' इति । एष एव सर्वत्र प्रयोजनस्य प्रतीयमानत्वेनोत्कर्षहेतुर्मन्तव्यः । मात्रग्रहणेन संज्ञी नात्र तिरस्कृत इत्याह-यथा चेत्यादि । ताला तदा । जाला यदा । घेप्पैन्ति गृह्यन्ते । अर्थान्तरन्यासमाह - रविकिरणेति । कमलशेब्दो लक्ष्मीपात्रत्वादिधर्मान्तरशतचित्रतापरिणतं संज्ञिनमाहेत्यर्थः । तेन शुद्धेऽर्थे मुख्ये बाधा निमित्तं तत्रार्थे तद्धर्मिसमवायः । तेन निमित्तेन रामशब्दो धर्मान्तरपरिणतमर्थं लक्षयति । व्यङ्गेयान्यसाधारणान्यशब्दवाच्यानि धर्मान्तराणि । एवं कमलशैब्दः । १. ' इत्यत्रानेन रामशब्देन हि' क ख २. 'संज्ञि' ग. ३. 'तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥' इति च्छाया. १. 'एव इतः ' क ख २. 'अपि' ग-पुस्तके नास्ति ३. 'इत्यादि' ग. ४. 'परिचित' ग. ५. 'न' ग-पुस्तके नास्ति. ६. 'धर्मान्तरं' क- ख. ७. 'अशक्यत्वात्' क-ख. ८. 'चित्र' क-ख. ९. 'कुलकामोदस्थानीयं' क-ख. १०. 'परं' गं. ११ . ' घेव्वन्ति' ST. १२. 'शब्द इति' गं. १३. 'शुद्धोते' क-ख. १४. 'असाधारणान्य' ग. १५. 'शब्दे' क- ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy