________________
६३
२ उझ्योतः] ध्वन्यालोकः । अत्यन्ततिरस्कृतवाच्यो यथादिकवेल्मिीके:-... 'रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥' इति। ... अत्रान्धशब्दः।
'गअणं च मत्तमेहं धारालुलिअजुणाइँ अ वणाई ।
णिरहंकारमिअङ्का हरन्ति नीलाओ वि णिसाओ.॥ अत्र मत्तनिरहंकारशब्दौ । '
गुणशब्दस्तु संज्ञिमात्रमाहेति । तत्र तद्बलात्कैश्चिदारोपितं तदप्रातीतिकम् । अनुपयोगबाधितो ह्यर्थोऽस्य ध्वनेर्विषयो लक्षणामूलस्य । यत्तु हृदयदपण उक्तम्-'हहा हेति । संरम्भार्थोऽयं चमत्कारः' इति । तत्रापि संरम्भ आवेगो विप्रलम्भव्यभिचारीति रसध्वनिस्तावदुपगतः । न च रामशब्दाभिव्यक्त्यार्थसाहायकेन विना संरम्भोल्लासोऽपि । अहं सहे तस्याः किं वर्तत इत्येवमात्मा हि संरम्भः। कमलपदे च कः संरम्भ इत्यास्तां तावत् । अनुपयोग्यात्मिका च मुख्यार्थबाधात्रास्तीति लक्षणामूलवादविवक्षितवाच्यमेदतास्योपपनैव । शुद्धार्थस्यौविवक्षणात् । न च तिरस्कृतलं शुद्धस्य । तस्यापि तावत्यनुगमात् । अत एव चे परिणताचोयुक्त्या व्यवहृतम्-अत्यन्तेत्यादि। आदिकवेरिति ध्वनेर्लक्ष्यप्रसिद्धतामाह-रवीति । हेमन्तवर्णने पञ्चवट्या रामस्योक्तिरियम् । अन्ध इति चोपहतदृष्टिः । जात्यन्धस्यापि गर्भे दृष्टयुपघातात् । अन्धोऽयं पुरोऽपि न पश्यतीत्यतस्तत्र तिरस्कारोऽन्धार्थस्य न खत्यन्तम् । इह खादर्शस्यान्धलमारोप्यमाणमपि न सह्यमिति । अन्धशब्दोऽत्र पदार्थस्फुटीकरणाशक्तवं नष्टदृष्टिगतं निमित्तीकृत्यादर्शलक्षणया प्रतिपादयति । असाधारणविच्छायत्वानुपयोगिवादिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति । भट्टनायकेन तु यदुक्तम्-'इवशब्दयोगाद्गौणताप्यंत्र न काचित्' इति, तच्छ्रोकार्थमपरामृश्य । आदर्शचन्द्रमसोर्हि सादृश्यमिवशब्दो द्योतयति । निःश्वासान्ध इति चादर्शविशेषणम् । इवशब्दस्यान्धार्थवेन योजने आदर्शश्चन्द्रमा इत्युदाहरणं भवेत् । योजनं चैतदिवशब्दस्य क्लिष्टम् । न च निःश्वासेनान्ध इवादर्शः स इव चन्द्र इति कल्पना युक्ता । जैमि-. नीयसूत्रे ह्येवं योज्यते न काव्येऽपीत्यलम् । गअणमिति । [गगनं च मत्तमेचं
१. 'वाच्यार्थों ध्वनिर्यथा' ग. २. 'इति' क-ख-पुस्तकयो स्ति. ३. 'यथा च श्लोकः गअणं च' ग. ४. 'लीलाइ वि' क-ख.
१. 'लक्षणामूलं ह्यस्य' क-ख. २. 'कमलशब्देन च' ग. ३.. 'अविवक्षितत्वात्' ग. ४. 'धर्मिरूपेण' ग. ५. 'च' ग-पुस्तके नास्ति. ६. 'वचो' क-ख. ७. 'अत्यन्तेत्यादि' गपुस्तके नास्ति. ८. 'रतिसंक्रान्त-श्लोकः' ग. ९ 'इत्युपसंहृत' क-ख. १०. 'दृष्टरुपघातात्' क. ११. 'अन्वर्थस्य' क-ख. १२. 'न दृष्टदृष्टिगतवं' क-ख. १३. 'आदर्शल' क-ख. १४. 'धर्मान्तमसंख्य' ग. १५. 'सूत्रं-काव्यमित्यलं' ग. १६. 'यथाचेति' ग.