SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। शब्दार्थशासनज्ञानमात्रेऽपि परं न वेद्यते सोऽर्थों यस्मात्केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते । यदि च वाच्यरूप एवासावर्थः स्यात्तद्वाच्याचकखरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् । अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां कोव्यतत्त्वार्थभावनाविमुखानां खरश्रुत्यादिलक्षणमिव प्रगीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः । एवं वाच्यव्यतिरेकिणो व्यङ्गयस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यैवेति प्रतिपादयति 'सोऽर्थस्तव्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन । यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थों महाकवेः ॥ ८॥ इति । न तु न वेद्यते, येन न स्यादसाविति भावः । काव्यतत्त्वभूतो योऽर्थस्तस्य भावना वाच्यातिरेकेणानवरतचर्वणा तत्र विमुखानाम् । खराः षड्जादयः सप्त । श्रुतिर्नाम शब्दस्य वैलक्षण्यमात्रकारि यद्रूपान्तरं तत्परिणामानां खरतदन्तरालोभयभेदकल्पिता द्वाविंशतिविधा । औदिशब्देन जात्यंशकग्रामरागभाषाविभाषान्तरभाषा देशीमार्गा गृह्यन्ते । प्रकृष्टं गीतं गानं येषां ते प्रगीताः, गातुं वा प्रारब्धा इत्यादिकर्मणिः क्तः । प्रारम्मेण चात्र फैलपर्यन्तता लक्ष्यते। एवमिति । खेरूपविषयभेदेन भिन्नसामग्रीज्ञेयत्वेन चेत्यर्थः । प्रत्यभिज्ञेयावित्यहाथै कृत्यः । सर्वोऽपि हि तथा यतते इतीयता प्राधान्ये लोकप्रसिद्धलं प्रमाणमुक्तम् । नियोगार्थेन च कृत्येन शिक्षाक्रम उक्तः । प्रत्यभिज्ञेयशब्देनेदमाह—'काव्यं तु जातु जायेत कस्यचित्प्रतिभावतः' इति नयेन यद्यपि स्वयमस्यैव तत्पॅरिस्फुरति तथापीदमितीत्थमिति विशेषतो निरूप्यमाणं सहस्रशाखीभवति । यदुक्तमस्मत्परमगुरुभिः श्रीमदुत्पलपादैः–'तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा । लोकस्यैष तथानवेक्षितर्गुणः खात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥' इति । तेन ज्ञातस्यापि विशेषतो निरूपणमनुसं. धानात्मकमत्र प्रत्यभिज्ञानम् । न तु तदेवेदमित्येतावन्मात्रम् । महाकवेरिति । यो १. 'च' क-ख-पुस्तकयो स्ति. २. 'एवास्यार्थः' ग. ३. 'तत्' क-पुस्तके नास्ति. ४. 'वाचकरूप' ग. ५. 'काव्यार्थतत्त्व' क-ख. ६. 'खलक्षण' ग. ७. 'व्यङ्ग्यस्यार्थस्य' ग. ८. 'प्रदर्शयति' ग. १. 'मात्र' ग-पुस्तके नास्ति. २. 'तत्परिमाणानां' ग-पुस्तके नास्ति. ३. 'आदि- . ग्रहणेन जात्यंशतद्रामरागभाषाभाषान्तरभागा' ग. ४. 'पर्यन्तमालक्ष्यते' ग. ५. 'खरूपभेदेन विषयभेदेन' क-ख. ६. 'प्रसिद्धप्रमाणं' ग. ७. 'परिष्कारीति' क-ख. ८. 'यथोकं' ग. ९. 'गुणस्यात्मापि' ग. १०. 'निरूपणानुसंधाना' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy