________________
१ उठ्योतः] ध्वन्यालोकः। 'सरखती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् ।। अलोकसामान्यमभिव्यनक्ति प्रतिस्फुरन्तं प्रतिभाविशेषम् ॥ ६॥
वस्तुतत्त्वं निःष्यन्दमाना महतां कवीनां [ सरखती ] लोकसामान्य प्रतिभाविशेष परिस्फुरन्तमभिव्यनक्ति । येनास्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते । इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम्
'शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते । वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ ७॥
एवमितिहासमुखेन प्रतीयमानस्य काव्यात्मतां प्रदर्य खंसंवित्सिद्धमप्येतदिति दर्शअति-सरस्वतीति । वाररूपा भगवतीत्यर्थः । अर्थशब्देन वस्तुशब्दं वस्तुशब्देन तत्त्वशब्दं च वक्तुं वस्तुशब्दं व्याचष्टे-निष्पन्दमानेति । दिव्यमानन्दरसं खयमेव प्रस्नुवानेत्यर्थः । यदाह भट्टनायकः–'वाग्धेनुर्दुग्ध ऎकं हि रसं येल्लाभतृष्णया। तेन नास्य समः स स्याङ्ह्यते योगिभिर्हि यः ॥' तदावेशेन विनाप्याक्रान्त्या हि योनिभिदुयते । अत एव–'यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भीखन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥' इत्यनेन साराग्यवस्तुपात्रलं हिमवत उक्तम् । अभिव्यनक्ति प्रतिस्फुरन्तमिति । प्रतिपत्तन्प्रति सा प्रतिभा नानुमीयमाना, अपि तु तदावेशेन भासमानेत्यर्थः । यदुक्तमस्मदुपाध्यायभट्टतौतेन–नायकस्य कवेः श्रोतुः समानोऽनुभवस्ततः' इति । प्रतिभा अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा । तस्या विशेषो रसावेशवैशंद्यसौन्दर्यकाव्यनिर्माणक्षमत्वम् । यदाह मुनिः-'कवेरन्तर्गन्तं भावं' इति । येनेति । अभिव्यक्तेन स्फुरता प्रतिभाविशेषेण निमित्तेन महाकवि[व]गणनेति यावत् ।
इदं चेति । न केवलं 'प्रतीयमानं पुनरन्यदेव' इत्येतत्कारिकासूचितौ खरूपविषयभेदावे', यावद्भिनसामग्रीवेद्यत्वमपि वाच्यातिरिक्तले प्रमाणमिति यावत् । वेद्यत
१. 'अवलोकसाम्यं प्रतिभाविशेषं परिस्फुरन्तं समभिव्यनक्ति' क-ख. २. 'वस्तुतत्त्वं' इत्यारभ्य 'व्यनक्ति' इतिपर्यन्तं क-ख-पुस्तकयो स्ति. ३. 'इयति' क-ख. ४. 'इति' ग-पुस्तके नास्ति. ५. 'तु' ग.
१. स च संवित्' ग. २. 'वस्तुशब्देनार्थशब्दं तत्त्वशब्देन च वस्तुशब्द' ग. ३. 'यथा' ग. ४. 'एव' क-ख. ५. 'यद्वाल' ग. ६. भाखन्तीत्युत्तरार्ध क-ख-पुस्तकयो स्ति. .. 'परिस्फुरन्तं' कख. ८. 'प्रतिभानुमीया नापि तद्विलेशेन' ग. ९. 'यथोक्तमस्मदुपाध्यायेन भट्टलोल्लटेन' ग. १०. 'वैशारद्यसौन्दर्य' क-ख. ११. 'एवं' क-ख.
४ ध्व० लो०