SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २८ ' काव्यमाला । 'मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥' शोको हि करुणरसस्थायिभावः प्रतीयमानरूप एवेति प्रतिपादितम् । प्रतीयमानस्य चान्यप्रभेददर्शनेऽपि रसाभावमुखेनैवोपलक्षणम् । प्राधान्यात् । तेन सर्वत्रापि न ध्वननसद्भावेऽपि तथा व्यवहारः । आत्मसद्भावेऽपि क्वचिदेव जीवव्यवहार इत्युक्तं प्रागेव । तेनैतन्निरवकाशम् । यदुक्तं हृदयदर्पणे–'सर्वत्र तर्हि काव्यव्यवहारः स्यात्' इति । संनिहितसहचरीति विभाव उक्तः । आक्रन्दितशब्देनानुभावः । जनित इति । चर्वणगोचरखेनेति शेषः । ननु शोकचर्वणातो यदि श्लोक उद्भूतस्तत्प्रतीयमानं वस्तु काव्यस्यात्मेति कुत इत्याशङ्याह-शोको हीति । करुणस्य च चर्वणागोचरात्मनः शोकः स्थायिभावः । शोके हि स्थायिभावे ये विभावानुभावास्तसमुचिता चित्तवृत्तिश्चर्वणात्मा रस इत्यौचित्यात्स्थायिनो रसतापत्तिरित्युच्यते । प्राक्खसंविदितं परत्रानुमितं च चित्तवृत्तिजातं संस्कारक्रमेण हृदयसंवादमादधानं चर्वणायामुपयुज्यते । ननु प्रतीयमानरूपमात्मा तंत्र विमेदं प्रतिपादितम् । न तु रसैकरूपम् । अनेन चेतिहासेन रसस्यैवात्मभूतत्वमुक्तं भवतीत्याशझ्याभ्युपगमेनैवोत्तरमाह-प्रती. यमानस्य चेति । अन्यो भेदो वस्त्वलंकारात्मा। भावग्रहणं व्यभिचारिणोऽपि चळमाणस्य तावन्मात्राविश्रान्तावपि स्थायिचर्वणापर्यवसानोचितरसप्रतिष्ठामनवोप्यानुप्राणकलं भवतीत्युक्तम् । यथा-'नखं नखाग्रेण विघट्टयन्ती विवर्तयन्ती वलयं विलोलम् । आमन्द्रमाशिजितनूपुरेण पादेन मन्दं भुवमालिखन्ती ॥' इत्यत्र लज्जायाः । रसभावशब्देन च तदाभासतत्प्रशमावपि संगृहीतावेव । अवान्तरवैचित्र्येऽपि तदेकरूपत्वात् । प्राधान्यादिति । रसपर्यवसानादित्यर्थः । तावन्मात्रविश्रान्तावपि चान्यशब्दवैलक्षण्यकारित्वेन वस्खलंकारध्वनेरपि जीवितत्वमौचित्यादुक्तमिति भावः । १. 'रस' ग-पुस्तके नास्ति. १. 'प्रागेतन्नैतन्निरव' ग. २. 'निहत' ग. ३. 'विशेषः' क-ख. ४. 'काव्यात्मेति' ग. ५. 'तचर्वणा' ग. ६. 'शोकः' ग-पुस्तके नास्ति. ७. 'तत्त्वसमुचिताः' ग. ८. 'तच्चेति भेदं' ग. ९. 'उक्तं' ग-पुस्तके नास्ति. १०. 'उदित' क-ख. ११. 'अपि प्राणकत्त्वं' क ख. १२. 'भवतीति' ग-पुस्तके नास्ति. १३. 'लज्जया' क-ख. १४. 'च' ग-पुस्तके नास्ति. १५. 'चाशाब्द' ग. १६. 'एवौचित्यात्' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy