________________
१ उच्योतः ]
ध्वन्यालोकः ।
विविधविशिष्टवाच्यवाचकरचनामैपञ्चचारुणः क्राव्यस्य स एवार्थः सौरभूतः संनिहितसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः ।
प्रक्रान्तवृत्तिग्रन्थबलाच्च । तेन रस एव वस्तुत आत्मा वस्त्वलंकारध्वनी तु सर्वथा रेस प्रति पर्यवस्येते इति वाच्यादुत्कृष्टौ तावित्यभिप्रायेण ध्वनिः काव्यस्यात्मेति सामान्येनोक्तम् । शोक इति । क्रौञ्चद्वन्द्वावियोगेन सहचरीहननोद्भूतेन साहचर्यध्वंसनेनोत्थितो यः शोकः स्थायिभावो निरपेक्ष्य भावत्वाद्विप्रलम्भ शृङ्गारोचितस्थायिभावत्वादन्य एव । स एव तथाभूतविभावतदुत्थाक्रन्दाद्यनुभावचर्वणया हृदयसंवादतन्मयी भवनक्रमादास्वाद्यमानतां प्रतिपन्नः करुणरसरूपतां लौकिकशोकव्यतिरिक्तां स्वचित्तवृत्ति - माखाद्यसारां प्रतिपन्नो रसः परिपूर्णकुम्भोच्छलनवश्चित्तवृत्तिनिःस्पन्दखभाववाग्विलापादिसमयानपेक्षित्वेऽपि चित्तवृत्तिव्यञ्जकत्वादिनयेनाकृतकतयैवावेशवशात्समुचितच्छन्दोवृत्तादिनियन्त्रितश्लोकरूपतां प्राप्तः मा निषादेत्यादि । न तु मुनेः शोक इति मन्तव्यम् । एवं हि 'संति तद्दुःखेन सोऽपि दुःखित इति कृत्वा रसस्यात्मतेति निरवकाश भवेत् । 'ने तु दुःखसंतप्तस्यैषा दशेति । एवं हि चर्वणोचितशोकस्थायिभावात्मककरुणरससर्मुच्छलनस्वभावत्वात्स एव काव्यस्यात्मा सौरभूतस्वभावोऽपरशब्दवैलक्षण्यकारकः । एतदेवोक्तं हृदयदर्पणे - ' यावत्पूर्णो न चैतेन तावन्नैवैवम्' इति । ग -च्छान्दसेनाडागमेन । स एवेत्येवकारेणेदमाह– नान्य आत्मेति । तेन यदाह भट्टनायकः'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । 'अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ॥ द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत्' इति तेदेपास्तम् । व्यापारो हि यदि ध्वननात्मा रसनाखभावस्तन्नापूर्वमुक्तम् । अथाभिधैव व्यापारस्तथाप्यस्याः प्राधान्यं नेत्यावे - दितं प्राक् । श्लोकं व्याचष्टे – विविधेति । विविधं तत्तदभिव्यञ्जनीयरसानुगुण्येन विचित्रं कृत्वा वाच्ये वाचके रचनायां च पञ्चेन यच्चारुशब्दार्थालंकार गुणयुक्तमित्यर्थः ।
१. ‘विशिष्ट’ ग-पुस्तके नास्ति. २. 'प्रपञ्च' क ख - पुस्तकयोर्नास्ति. ३. 'सारभूतः । तथा चादिकवेर्निहतसहचरी' ग.
१. ‘ग्रन्थार्थ' क-ख. २. 'रसं पर्यवस्यत इति' गं. ३. 'कौश्चस्य' क-ख. ४. 'खचि'तद्रुतमाखाद्य' ग. ५. 'बलवत्' ग. ६. ' स्वरूप भाववाग्विलासादि' ग. ७. 'व्यञ्जकत्वादिति नये' ग. ८. 'इव' ख. ९. 'प्राप्तम्' ग. १०. 'सति' ग-पुस्तके नास्ति. ११. 'तद्दुःख' ख, 'न च दुःख' ग. १२. 'भाववचनात्मक' क- ख. १३. 'समुच्चलन' ग. १४. 'रसभूतोऽपरशब्दस्य वैलक्षण्य' ग. १५. 'अमुमेवेति । च्छान्दसेनडा' ग. १६. ‘इति’ क-ख-पुस्तकयोर्नास्ति १७. 'अर्थे तत्त्वेन युक्ते' ग. १८. 'काव्यगीः ' ग. १९. 'तदस्तम्' क ख २०. 'अथाभिधेय' क ख २१. 'प्राधान्ये' ग. २२. 'प्रप'चैन' क-ख-पुस्तकयोर्नास्ति.