SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २६ काव्यमाला। मनागपि रसवत्त्वप्रतीतिरस्ति । यतश्व खाभिधानमन्तरेण केवलेभ्योऽपि विभावादिभ्यो 'विशिष्टेभ्यो रसादीनां प्रतीतिः । केवलाच खोभिधानादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथंचित् । इति तृतीयोऽपि प्रभेदो वाच्याद्भिन्न एवेति स्थितम् । वाच्येन त्वस्य सहैव प्रतीतिरित्यग्रे दर्शयिष्यते । 'काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा । क्रौश्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥५॥ काव्यरूपतया प्रयुज्यमान इत्यर्थः । मनागपीति । 'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाव्ये रसाः स्मृताः ॥' इति । ऐवं स्वशब्देन सह रसादेर्व्यतिरेकान्वयाभावमुंपदर्य तमेवोपसंहरति-यतश्चेत्यादिना कथंचिदित्यन्तेन । अभिधेयमेव सामर्थ्यं सहकारिशक्तिरूपं विभावादिकं रसध्वनने शब्दस्य कर्तव्ये, अभिधेयस्य च पुत्रजन्महर्षभिन्नयोगक्षेमतया जननव्यतिरिक्त दिवाभोजनाभावविशिष्टपीनखानुमितरात्रिभोजनविलक्षणतया चानुमानव्यतिरिक्ते ध्वनने कर्तव्ये सामर्थ्य शक्तिविशिष्टं समुचितसाकल्यम् । इति द्वयोरपि शब्दार्थयोर्ध्वननव्यापारः । एवं द्वौ पक्षावुपक्रम्याद्यो दूषितः । द्वितीयस्तु कथंचिद्दषितः कथंचिदङ्गीकृतः । जननांनुमानव्यापाराभिप्रायेण दूषितः ध्वननाभिप्रायेणाङ्गीकृतः । यस्त्वत्रापि तात्पर्यशक्तिमेव ध्वननं मन्यते स न वस्तुतत्त्ववेदी । विभावानुभावप्रतिपादके हि वाक्ये तात्पर्यशक्तिर्भेदसंसर्गे वा पर्यवस्येत् । न तु रस्यमानतासारे रसे । इत्यलं बहुना । इतिशब्दो हेलर्थे । इत्यपि हेतोस्तृतीयोऽपि प्रकारो वाच्याद्भिन्न एवेति संबन्धः । सहैवेति । ईवशब्देन विद्यमानोऽपि क्रमो न संलक्ष्यत इति तदर्शयति-अग्र इति । द्वितीयोहयोते । एवं 'प्रतीयमानं पुनरन्यदेव' 'इतीयता ध्वनिखरूपं व्याख्यातम् । अधुना काव्यात्मवमितिहीसव्याजेनैव दर्शयति-काव्यस्यात्मेति । स एवेति प्रतीयमानमात्रेऽपि प्रक्रान्ते तृतीय एव रसध्वनिरिति मन्तव्यम् । इतिहासबलात् १. विशिष्टेभ्यो' ग-पुस्तके नास्ति. २. 'खाभिधानमात्रात्' क-ख. ३. 'प्रदर्शयिष्यते' ग. १. 'प्रसज्यमान' ग. २. 'अत्रैव खशब्देन' ग. ३. 'उपदर्शि' ख, 'उपपत्त्या प्रदर्य तथैवोप' ग. ४. 'विधेयस्य पुत्र' ग. ५. 'शक्तिः विशिष्टसमुचित' ग. ६. 'अनुव्यापार' क, 'अनुमाव्यापार' ग. ७. 'शक्तिभेदः संसर्गे' ग. ८. 'सारो रसः' ग. ९. 'इह शब्देन' क-ख. १०. 'इति तदर्शयति' क-ख-पुस्तकयो स्ति. ११. 'इति यतो' ग. १२. 'इतीतिहास' ग. १३. 'वाच्यस्य' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy