________________
१ उच्योतः ]
ध्वन्यालोकः ।
३१
स व्यङ्ग्योऽर्थस्तंत्प्रकाशनसामर्थ्ययोगी शब्दश्च कश्चन, ने सर्वः । तावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ व्यङ्ग्यव्यञ्जकाभ्यामेव हि सुप्रयुताभ्यां महाकवित्वलाभो महाकवीनाम्, न वाच्यवाचकरचनामात्रेण । इदानीं व्यङ्गयव्यञ्जकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयस्तदपि युक्तमेवेत्याह
'आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः । तदुपायतया तद्वदर्थे वाच्ये तदादृतः ॥ ९ ॥
यथा ह्यालोकार्थी सन्नपि दीपशिखायां यत्नवानो भवति तदुपायतया । नहि दीपशिखामन्तरेणालोकः संभवति । तद्वद्व्यङ्गयमर्थं प्रत्याहतो जनो वाच्येऽर्थे यत्नवान्भवति । अनेन प्रतिपादकस्य कवेर्व्यङ्ग्यर्थं प्रति व्यापारो दर्शितः ।
प्रतिपाद्यस्यापि तं दर्शयितुमाह
'यथा पदार्थद्वारेण वाक्यार्थः संप्रतीयते । वाच्यार्थ पूर्विका तद्वत्प्रतिपत्तव्यवस्तुनः ॥ १० ॥'
मंहाकविरित्यहं भूयासमित्याशास्ते । एवं व्यङ्ग्यस्यार्थस्य व्यञ्जकस्य शब्दस्य च प्राधान्यं वदता व्यङ्ग्यव्यञ्जकभावस्यापि प्राधान्यमुक्तमिति ध्वनति ध्वन्यते ध्वननमिति त्रितयमप्युपपन्नमित्युक्तम् ।
ननु प्रथमोपदीयमानत्वाद्वाच्यवाचकतेंद्भावस्यैव किं न प्राधान्यमित्याशङ्कयोपायानामेव प्रथममुपादानं भवतीत्यभिप्रायेण विरुद्धोऽयं प्राधान्ये साध्ये हेतुरिति दर्शयतिइदानीमित्यादिना । आलोकनमालोकः । वनितावदनारविन्दावलोकनमित्यर्थः । तत्र चोपायो दीपशिखा । प्रतिपदिति भावे क्विप् । तस्य वस्तुन इति व्यङ्ग्यरूपस्य सारस्येत्यर्थः । अनेन श्लोकेनात्यन्तसहृदयो यो न भवति तस्यैष स्फुटसंवेद्य एव क्रमः
१. ‘तद्व्यक्तिसामर्थ्यं’ ग. २. 'न शब्दमात्रम्' ग.. ३. 'अर्थो वाच्यो' ग. ४. 'जनो' क-ख- पुस्तकयोर्नास्ति. ५. 'वाच्यार्थे' ख. ६. 'प्रतिपदिकस्य' ख. ७. 'अर्थ' क ख- पुस्तकयोर्नास्ति. ८. 'प्रतिपन्नस्य' क- ख.
१. ‘महाकविरहं भूयासमित्याशंसा' ग. २. 'उक्त' ग-पुस्तके नास्ति. ३. 'उपलक्षणं' ग. ४. ‘उपादेयमान' क ख ५. 'तद्' ग-पुस्तके नास्ति ६. 'किं न' ग-पुस्तके' नास्ति, ७. ‘संवेद्यक्रमः' क- ख.