SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः सलोचनः । अयं ध्वन्यालोको भागद्वयात्मकः तत्रैको भागः कारिकारूपो ध्वनिसंज्ञकः, अपरस्तद्वृत्तिरूप आलोकसंज्ञकः तत्र कारिकाणां वृत्तेश्च प्रणेता श्रीमदानन्दवर्धनाचार्य एवेति केषांचन मतम्. तथा च जहणसंकलितसूक्तिमुक्तावलौ राजशेखरनाम्ना समुद्धृतम् 'ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना । आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥' एतत्पद्यमप्यानन्दवर्धनस्यैव ध्वनिकर्तृतां सूचयति. किंतु लोचनस्थितैः “ अत एव मूलकारिका, तन्निराकरणार्था न श्रूयते वृत्तिकृत्तु निराकृतमपि प्रमेयसंख्यापूरणाय कण्ठेन तत्पक्षमनूद्य निराकरोति ।' (५९ पृष्ठे ), ' तेनात्र प्रथमोद्द्योते ध्वनेः सामान्यलक्षणमेव कारिकाकारेण कृतम् द्वितीयोध्योते कारिकाकारोऽवान्तरविभागं विशेषलक्षणं च विदधदनुवादमुखेन मूलविभागं द्विविधं सूचितवान् । तदाशयानुसारेण तु वृत्तिकृदत्रैवोयोते मूलविभागमवोचत् ।' (५९ पृष्ठे ), 'न चैतन्मयोक्तमपि तु कारिकाकाराभिप्रायेणेत्याह ।' (६० पृष्ठे), 'भवति मूलतो द्विभेदत्वं कारिकाकारस्यापि संमतमेवेति भावः । (६० पृष्ठे ), एतत्तावत्रिमेदत्वं न कारिकाकारेण कृतम् । वृत्तिकारेण तु दर्शितम् ।' (१२३ पृष्ठे),” इत्यादिभिर्वाक्यैः कारिकाकर्तुर्वृत्तिकारो भिन्न इति स्फुटमेव दृश्यते तत्र कोऽयं ध्वनिकारिकाकार इत्यनिश्चितमेव वृत्तिकारस्तु राजानकश्रीमदानन्दवर्धनाचार्यः कश्मीरेषु ख्रिस्ताब्दीयनवमशतकोत्तरभागेऽवन्तिवर्ममहीपते राज्यसमये प्रसिद्ध आसीदिति राजतरङ्गिणीतो ज्ञायते एतत्पितुश्व 'नोण' इति नामासीदित्येतत्प्रणीत देवीशतकतो बुध्यते. ध्वन्यालोकः, देवीशतकम्, विषमबाणलीला ( प्राकृतम् ), अर्जुनचरितम्, विनिश्चयटीकाया धर्मोत्तमाया विवृतिः (बौद्धग्रन्थः ), एतग्रन्थपञ्चकमेतत्प्रणीतं ज्ञायते तत्र ध्वन्यालोकः, देवीशतकं चेति ग्रन्थद्वयमेवाद्यावध्यधिगतम्. काव्यालोकः सहृदयहृदयालोक इति च ध्वन्यालोकस्यैव नामनी. अस्मिन्ध्वन्यालोके च ( १ ) अमरुकः, (२) अर्जुनचरितम्, (३) आदिकविः (वाल्मीकिः), (४) उद्भट:, (५) कादम्बरी, (६) कालिदासः, (७) कुमारसंभवम्, (८) तापसव - त्सराजः, (९) धर्मकीर्तिः, (१०) मागानन्दम् (११) बाणः, (१२) भरतः, (१३) भामहः, (१४) भारतम्, (१५) मधुमथनविजयम्, (१६) रत्नावली, (१७) रामाभ्युदयम्, (१८) रामायणम्, (१९) विषमबाणलीला, (२०) वेणीसंहारम्, (२१) व्यासः, (२२) सर्वसेनः (हरिविजयस्य प्राकृतकाव्यस्य प्रणेता), (२३) सेतु:, (२४) हरिविजयम् (प्राकृतम्), (२५) हर्षचरितम्, एतानि प्रत्नानां ग्रन्थानां ग्रन्थकर्तॄणां च नामानि समुपलभ्यन्ते.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy