SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ लोचनाख्याया ध्वन्यालोकटीकायाः प्रणेतारो महामाहेश्वराचार्यश्रीमदभिनवगुप्तपादाचार्या अपि ख्रिस्ताब्दीयदशमशतकोत्तरभाग एकादशशतकारम्भे च कश्मीरेष्वेवासमिति तत्कृतबृहत्प्रत्यभिज्ञाविमर्षिणी समाप्तौ ' इति नवतितमेऽस्मिन्वत्सरेऽन्त्ये युगांशे तिथिशशिजलधिस्थे (४११५) मार्गशीर्षावसाने' इत्यादि पद्यात्प्रतीयते. श्रीलक्ष्मणगुप्तः भट्टेन्दुराजः, भट्टतौतः, इति त्रयोऽप्युपाध्यायाः, वराहगुप्तः पितामहः; चुखलो नाम जनकः; मनोरथगुप्तोऽनुजः; कर्णक्षेमराजाद्याश्च शिष्याः श्रीमदाचार्याभिनवगुप्तानामासन्नित्यपि तत्प्रणीतग्रन्थेभ्यो ज्ञायते. ग्रन्थाश्चाचार्यप्रणीतग्रन्थेभ्योऽस्मदवगता एते - (१) अनुत्तरा - ष्टिका, (२) काव्यकौतुकस्य ( भट्टतौतकृतस्य) विवरणम्, (३) *मस्तोत्रम्, (४) घटकर्परकुलकविरृतिः, (५) तन्त्रवटधानिका, (६) तन्त्रसारः, (७) तन्त्रालोकः, (८) देहस्थदे`वताचक्रस्तोत्रम्, (९) ध्वन्यालोकलोचनम्, (१०) नाट्यलोचनम्, (११) परमार्थचर्चा, (१२) परमार्थद्वादशिका, (१३) परमार्थसार:, (१४) परात्रिंशिका विवरणम्, (१५) प्रकरणस्तोत्रम्, (१६) प्रत्यभिज्ञाविमर्षिणी बृहती वृत्तिः, (१७) प्रत्यभिज्ञाविमर्षिणी लघुवृत्तिः, (१८) बोधपञ्चदशिका, (१९) भगवद्गीताटीका, (२०) भारतीयनाट्यशास्त्रटीका, (२१) भैरवस्तोत्रम्, (२२) महोपदेशविंशतिः, (२३) मालिनीविजयवार्तिकम्, एतेषु काव्यकौतुकविवरणं क्रमस्तोत्रं नाट्यलोचनं प्रकरणस्तोत्रं भारतीयनाट्यशास्त्रटीका ति प्रन्थपञ्चकमपहाय सर्वेऽपि ग्रन्था अस्मदवलोकिताः सन्ति. ध्वन्यालोकलोचने च (१) अमरुकः, (२) अर्जुनचरितम्, (३) अस्मद्गुरवः, (४) भट्ट-इन्दुराजः, (५) उत्पलाचार्याः, (६) उद्भटः, (७) ऐतिहासिकाः, (८) कादम्बरीकथासार : ( भट्टजयन्तप्रणीतः), (९) काव्यकौतुकविवरणम्, (१०) कालिदासः, (११) चन्द्रिकाकारः, (१२) जयन्तभट्टः, (१३) तापसवत्सराजः, (१४) भट्ट तौतः, (१५) दण्डी, (१६) भट्ट नायकः, (१७) भट्टः ( मीमांसकः), (१८) भरतः, भरतशास्त्रम्, (१९) भर्तृइरिः, (२०) भामहः, (२१) भामहविवरणम्, (२२) मनोरथकविः (आनन्दवर्धनाचार्यसमकालभवः), (२३) मुनिः (भरतः), (२४) यशोवर्मा, (२५) रघुवंशम्, (२६) रत्नावली, (२७) रामाभ्युदयम् ( यशोवर्मप्रणीतम्, ) (२८) वामनः, (२९) विक्रमोर्वशी, (३०) विनिश्चयटीकाधर्मोत्तमाविवृतिः, (३१) विवरणकृत्, (३२) विषमबाणलीला, (३३) स्वप्नवासवदत्ताख्यनाटकम्, (३४) हरिविजयम्, एतानि नामानि समुपलभ्यन्ते तत्र चन्द्रिकाभिधा काचन ध्वन्यालोकस्य व्याख्या लोचननिर्माणात्प्रागप्यासीदिति 'किं लोचनं विनालोको भाति चन्द्रिकयापि हि ' इत्यादिलोच- नान्तस्थितपद्यतः, मध्ये मध्ये च तन्मतखण्डनतः प्रतीयते स च चन्द्रिकाकारः श्री १. तद्देशप्रसिद्धे लौकिकाब्दे. कलिगताब्देषु पञ्चविंशतिरहितेषु शतेन तष्टेषु यदमशिष्यते स एव लौकिकाब्दः २. कलियुगे. ३. एतत्क्रमस्तोत्रं षट्षष्टिमिते लौकिकाब्दे -(९९१ ख्रिस्ताब्दे) कृतमाचार्यैरिति तत्समाप्तिश्लोकाज्ज्ञायते . ४. एतद्भैरवस्तोत्रमष्टषष्टिमिते लौकिकान्दे विहितमिति तत्समाप्तौ स्फुटम् .
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy