________________
काव्यमाला यदप्युक्तं भक्तिर्ध्वनिरिति तत्प्रतिसमाधीयते-:.. _ 'भक्या बिभर्ति नैकत्वं रूपमेदादयं ध्वनिः।
मिति न चैवंविधोत्तमफैलजनकत्वेन पञ्चाग्निप्रभृत्यपि तपः श्रुतम् । तवेति मिन्नं पदम् । समासेन विगलिततया सा न प्रेतीयते। तव दशतीत्यभिप्रायेण । तेन यत्केचिदाहुः'वृत्तानुरोधात्त्वधरपाटलमिति न कृतम्' इति, तदसदेव । देशतीत्याखादयति । अनवच्छिन्नप्रबन्धतया न त्वौदरिकवत्परं भुढे । अपि तु रसज्ञोऽत्रेति तत्प्राप्तिवदेवं रसज्ञताप्यस्य तपःप्रभावादेवेति । शुकशावक इति तारुण्यादुचितकाललाभोऽपि फलं तपस एवेति । अनुरागिणश्च प्रच्छन्नखामिप्रायख्यापनचाटुविरचनात्मकविभावोन्मीलनं व्यङ्ग्यम् । अत्र च त्रय एव व्यापाराः-अभिधा तात्पर्य ध्वननं चेति । मुख्यार्थबाधाद्यभावे मध्यमकक्ष्याया लक्षणायास्तृतीयस्या अभावात् । यदिवाकस्मिकविशिष्टप्रश्नार्थानुपपत्तेर्मुल्यार्थबाधायां सादृश्याल्लक्षणा भवतु मध्ये । तस्यास्तु प्रयोजनं ध्वन्यमानमेव । तत्तुर्यकक्ष्यानिवेशि । केवल पूर्वत्र लक्षणैव प्रधानं ध्वननव्यापारसहकारि । इह खमिधातात्पर्यशक्ती । वाक्यार्थसौन्दर्यादेव व्यङ्ग्यप्रतिपत्तेः केवलं लेशेन लक्षणाव्योपारोपयोगोऽप्यस्तीत्युक्तम् । असंलक्ष्यक्रमव्यङ्ग्ये तु लक्षणासमुन्मेषमात्रमपि नास्ति । असंलक्ष्यत्वादेव क्रमस्येति वक्ष्यामः । तेन द्वितीयेऽपि भेदे चत्वार एव व्यापाराः । अत एवोभयोदाहरणपृष्ठ एव भाक्तमाहुरित्यनुभाष्य दूषयति-भक्त्या बिभर्तीति ।। - १. 'फलत्वेन' क-ख. २. 'प्रतीयता' ग. ३. 'केचित्' ग-पुस्तके नास्ति. ४. दशतीति' ग-पुस्तके नास्ति. ५. 'लोभोऽपि तपसैवेति' ग. ६. 'मुख्याद्वाधाविरहे मध्यम' ग. ७. 'भावात्' ग. ८. 'मुख्यबाधायां' ग. ९. 'तु' क-ख.पुस्तकयो स्ति. १०. 'न केवलं' क-ख. ११. 'व्यापारे' ग. १२. 'व्यापारयोगो' ग. १३. 'समुद्दे. शमात्रं' नास्ति. १४. 'अस्तु लक्ष्यत्वादेव' ग. १५. 'अनुभाष्य' इत्यारभ्य 'उपचारमात्रमिति' इतिपर्यन्तं पुस्तकेष्वतीव पाठपौर्वापर्य वर्तते. तत्र ख-पुस्तकेऽयं पाठक्रमः'अनुभाष्य भक्केत्यादिना दूषयति-अत्रोक्तप्रकार इति पञ्चखर्थेषु योज्यम् । शब्देऽर्थे व्यापारे व्यङ्ग्ये समुदाये च । रूपभेदं दर्शयितुं ध्वनेस्तावद्रूपमाह-वाच्येति । भक्तिश्च ध्वनिश्चेति । ताप्यं लक्षणमुपलक्षणमिति त्रिविधमपि मतं दूषयति । किं पर्यायवत्ताद्रूप्यं पृथिवीत्वमिव पृथिव्याः । अन्यव्यावर्तकधर्मरूपतया लक्षणम् , उत काक इव देवदत्तस्य संभवमात्रादुपलक्षणम् । तत्र प्रथमं पक्षं निराकरोति-भक्त्या बिभर्तीति । तात्पर्येण विश्रान्तिधामतया । प्रयोजनत्वेनेति यावत् । प्रकाशनं द्योतनमित्यर्थः । उपचारमात्रमिति' इति. ग-पुस्तके तु–'अनुभाष्य दूषयति । अयं भावः-भक्ती..... तिकं पर्यायात्ताद्रूप्यमथ पृथिवीत्वमित्र पृथि..... अन्यतो व्यावर्तकधर्मरूपतया लक्षणम् , उत काक इव देवदत्तगृहस्य संभवमात्र........ भेदं दर्शयितुं ध्वनेस्तावद्रूपमाह-वाच्येति। तात्पर्येण विश्रान्तिधामतया प्रयोजनत्वेने.........रमात्रमिति । उपचा: