________________
१ उयोतः]
ध्वन्यालोकन अयमुक्तप्रकारो ध्वनिर्भक्त्या नैकत्वं बिभर्ति । मिनरूपत्वात् । वाच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येणार्थप्रकाशनं यत्र व्यङ्ग्य. प्राधान्ये स ध्वनिः । उपचारमात्रं तु भक्तिः । .....
तत्रैतत्स्याद्भक्तिर्लक्षणं ध्वनेरित्याह-- .: . ___ 'अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ १७ ॥
ने च भक्त्या ध्वनिर्लक्ष्यते । कथम् । अतिव्याप्तेरव्याप्तेश्च । तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्तेऽपि विषये भक्तेः संभवात् । यत्र हि व्यञ्जकत्वकृतं महत्सौष्ठवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवयो दृश्यन्ते । यथा-: अत्रोकप्रकार इति पञ्चखर्थेषु योज्यम् । शब्देऽर्थे व्यापारे व्यङ्ग्ये समुदाये च । रूपभेदं दर्शयितुं ध्वनेस्तावद्रूपमाह-वाच्येति । तात्पर्येण विश्रान्तिधामतया। प्रयोजनत्वे. नेति यावत् । प्रकाशनं द्योतनमित्यर्थः । भक्तिश्च ध्वनिश्चेति ताद्रूप्यं लक्षणमुपलक्षणमिति त्रिविधमपि मतं दूषयति । किं पर्यायवत्ताद्रूप्यम् । अथ पृथिवीत्वमिव पृथिव्या अन्यतो व्यावर्तकधर्मरूपतया लक्षणम् , उत काक इव देवदत्तगृहस्य संभवमात्रादुपलक्षणम् । तत्र प्रथमं पक्षं निराकरोति-उपचारमात्रमिति । उपचारो गुणवृत्तिलक्षणा उपचरणमतिशयितो व्यवहार इत्यर्थः । मात्रशब्देनेदमाह-यत्र लक्षणाव्यापारात्ततीयादन्यश्चतुर्थः प्रयोजनद्योतनात्मा व्यापारो वस्तुस्थित्या संभवन्नप्यनुपयुज्यमानत्वेनानाद्रियमाणत्वादस्मत्कल्पो यमर्थमधिकृत्य प्रवर्तते तद्धि प्रयोजनलक्षणम् । तत्रापि लक्षणास्तीति कथं ध्वननं लक्षणा चेत्येकं तत्त्वं स्यात् । द्वितीयं पक्षं दूषयति-तत्रैतदिति । असाविति ध्वनिः । तयेति भक्त्या । ननु ध्वननमवश्यंभावीति कथं तयतिरिक्तोऽस्ति विषय इत्याह-महत्सौष्ठवमिति । अत एव प्रयोजनस्यानादरणीयत्वायञ्जकत्वे न कृत्यं किंचिदिति भावः । महद्ब्रहणेन गुणमात्रं तद्भवति । यथोक्तम्-'समाघिरन्यधर्मस्य क्वाप्यारोपो विवक्षितः' इति । दर्शयति (2) । ननु प्रयोजनाभावे कथं तथा व्यवहार इत्याह-प्रसिद्ध्यनुरोधेति । परम्परया तथैव प्रयोगात् । वयं तु ब्रूमः-प्रसिद्धिर्या प्रयोजनस्य निगूढतेत्यर्थः । उत्तानेनापि रूपेण तत्प्रयोजनं चंकासन्नि
१. 'नैकतां' ग. २. 'व्यङ्ग्यप्राधान्ये' क-ख-पुस्तकयो स्ति.. '३. 'तु' क-खपुस्तकयो स्ति. ४. 'मा चैतत्' ग. ५. 'नैव' ग. ६. 'च' ग. ७. 'व्यङ्ग्यकृतं' ग. ... १. 'पर्यायस्ताद्रूप्यं' ग. २. 'अथ' क-ख-पुस्तकयो स्तिः३. 'अन्यव्यावर्तक' क-ख. ४. 'माणत्वात्संकल्पो' क-ख. . . ५. 'अतिव्याप्तेरिति' ग. ६. 'प्रयोजनस्य प्रयोजनानादरणाद्यञ्जकत्वे' क-ख. ७. 'न तद्भवति' क-ख. ८. 'प्रयोजनस्यानिरूढते' ग. ९. 'च तां निरूढतां' ग.