SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ परिवार वास्तनपान सजादुमयक खनोमवयस्मान्तः परिमलनमप्राप्य हरित। इदं व्यस्तन्यासं प्रशिथिलभुजाक्षेपबलमैः ___ कृशान्याः संतापं वदति बिसिनीपत्रशयनम् ॥ तथा 'चुम्बिज्जाइ साहु अवरुन्धिलाइ सहस्सहुत्तम्मि । विरमिअ पुणो रमिजइ पिओ जणो पस्थि पुनरुतम् ॥' तैया--- 'कुविआओ पसन्नाओ ओरण्णमुहीओ विहसमाणाको । जह महिओ तह हिअअं हरन्ति उच्छिन्तमहिलाओ।' तथा'अज्जाऍ पहारो पवलदार दिष्णो पिएण थणक्ट्टे । मिउओ वि दूसहो विवअ जाओ हिआए सवत्तीणम् ।।' गूढतां निधानवदपेक्षत इति भावः । यथेति । वदतीत्युपचारेण हि स्फुटीकरणप्रतिपत्तिः। प्रयोजनं यद्यगूढं खशब्देनोच्यते किमचारुत्वं स्यात् । गूढतया वर्णनेन किं चारुत्वमधिकं जातम् । अनेनैवाशयेन वक्ष्यति-यत उक्त्यन्तरेणाशक्यं किं यदिति । अवरुन्धिज्जइ आलिङ्गयते । पुनरुक्तमित्यनुपादेयता लक्ष्यते । उक्तार्थस्यासंभवात् । 'कु. पिताः प्रसन्ना अवरुदितवदना विहसन्त्यः । यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥' अत्र ग्रहणेनोपादेयता लक्ष्यते । हरणेन तत्परतन्त्रतापत्तिः । तथा अजेति । कनिष्ठभार्यायाः स्तनपृष्ठे नवलतया कान्तेनोचितक्रीडायोगेन मृदुकोऽपि प्रहारो दत्तः सपत्नीनां सौभाग्यसूचकं तत्क्रीडासंविभागमप्राप्तानां हृदये दुःसहो जातः । मुंदुत्वादेव अन्यस्य दत्तो मृदुः प्रहारोऽन्येन च संवेद्यते दुःसहश्च मृदुरपीति चित्रम् । १. 'परिमिलन' ग. २. 'श्लथभुजलताक्षेप' क-ख. ३. 'यथा' ग. ४. 'चुम्ब्यते शतकृत्वोऽवरुध्यते सहस्रकृत्वः । विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ॥' इति च्छाया. ५. 'यथा' ग. ६. टीकायामेव छायास्ति. ७. 'यथा' ग. ८. 'कनिष्ठभार्यायाः प्रहारो नवलतया दत्तः प्रियेण स्तनपृष्ठे । मृदुकोऽपि दुःसह इव जातो हृदये सपत्नीनाम् ॥' इति च्छाया. १. 'यथेति' ग-पुस्तके नास्ति. २. 'यद्यरूढं' ग. ३. 'उपरुदित' कख. ४. 'तत्' क-ख-पुस्तकयो स्ति. ५. 'सूचका क-ख, ६. 'मृदुलत्वादेव' ग. ७. 'अन्यस्य संपद्यते' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy