________________
१ उझ्योतः]
ध्वन्यालोकः। तथा
'परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो ___ यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः। न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' इत्यत्रेक्षुपदेऽनुभूतिशब्दः । न चैवंविधः कदाचिदपि ध्वनेर्विषयोऽमिमतः । यतः_ 'उक्त्यन्तरेणाशक्यं यत्तच्चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद्धन्युक्तर्विषयी भवेत् ॥ १८॥ अत्र चोदाहृते विषये नोक्त्यन्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः । किंच
'रूंढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि । लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥ १९ ॥
दानेनात्र फलवत्त्वं लक्ष्यते। तथा-परार्थेति । यद्यपि प्रस्तुतमहापुरुषापेक्षयामनुभवतिशब्दो मुख्य एव तथाप्यप्रस्तुते इक्षौ प्रशस्यमाने पीडाया अनुभवनेनासंभवता पीडावत्त्वं लक्ष्यते । तच्च पीज्यमाने पर्यवस्यति । नन्वस्त्यत्र प्रयोजनं तत्किमिति ने ध्वन्यत इत्याशङ्कयाह-न चैवंविध इति । यत उक्त्यन्तरेणेति । उक्त्यन्तरेण ध्वन्यतिरिक्तेन स्फुटेन शब्दार्थो(भय)व्यापारविशेषेणेत्यर्थः । शब्द इति पञ्चवर्थेषु योज्यम् । ध्वन्युक्तेर्विषयी भवेदिति । ध्वनिशब्देनोच्यत इत्यर्थः । उदाहृत इति । वदतीत्यादौ । एवं यत्र प्रयोजनं सदपि नादरास्पदं तत्र को ध्वननव्यापार इत्युक्वा यत्र मूलत एव प्रयोजनं नास्ति, भवति चोपचारस्तत्रापि को ध्वननव्यापार इत्याहकिं चेति । लावण्याद्या ये शब्दाः खविषयालवणरसयुक्तलादेः खार्थादन्यत्र हृधखादौ रूढाः रूढखादेव त्रितयसंनिध्युपेक्षणव्यवधानशून्याः । यदाह-निरूढा लक्षणा काचित्सामर्थ्यादभिधानवत्' इति । ते तस्मिन्खविषयादन्यत्र प्रयुक्ता अपि न ध्वनेः पदं भवन्ति । न तत्र ध्वनिव्यवहारः । उपचरिता शेब्दस्य वृत्तिर्गोणी । लाक्षणिकी
१. 'यथा' ग. २. 'च' ग. ३. 'अयं' ग. ४. 'इत्यादाविक्षुपदेऽनुभूतिशब्दः' कस. ५. 'कदाचिद्धनेर्विषयः । यतः' क-ख. ६. 'णाश' ख. ७. 'नोक्त्यन्तरेणाशक्य' क-ख. ८. 'निरूढा' ग.
१. 'तद्बलवत्त्वं' ग. २. 'म' ग-पुस्तके नास्ति. ३. 'धन्यथै क-ख. ४. 'लक्षणाः काश्चितू' ग. ५. 'शब्दवृत्तिः ' ग.
६ ध्व० लो.