SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तेषु चोपचरितशब्दवृत्तिरस्तीति । तथाविधे च विषये कचित्संभवनपि ध्वनिव्यवहारः प्रकारान्तरेण प्रवर्तते । न तथाविधशब्दमुखेन । अपि च। 'मुख्यां वृत्ति परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलदतिः ॥२०॥ तंत्र हि चारुत्वातिशयविशिष्टार्थप्रकाशनलक्षणे प्रयोजने कर्तव्ये यदि त्यर्थः । आदिग्रहणेनानुलोम्यं प्रातिकूल्यं सब्रह्मचारीत्येवमादयः शब्दा लाक्षणिका गृह्यन्ते । लोनामनुगतमनुलोमं मर्दनम् । कूलस्य प्रतिपक्षतया स्थितं स्रोतः प्रतिकूलम् । तुल्यगुरुः सब्रह्मचारी । इति मुख्यो विषयः । अन्यः पुनरुपचरित एव । न चात्र प्रयोजनं किंचिदुद्दिश्य लक्षणा प्रवृत्तेति न तद्विषयो ध्वननव्यवहारः । ननु 'देवडिति लुणाहि पलुम्मिगमिज्वालवणुज्वलं गुमरिफोल्लपरण्य' (8) इत्यादौ लावण्यादिशब्दसंनिधानेऽस्ति प्रतीयमानाभिव्यक्तिः । सत्यम् । सा तु न लावण्यशब्दात् । अपि तु समग्रवाक्यार्थप्रतीत्यनन्तरं ध्वननव्यापारादेव । अत्र हि प्रियतमामुखस्यैव समस्ताशाप्रकाशकवं ध्वन्यत इत्यलं बहुना । तदाह-प्रकारान्तरेणेति । व्यञ्जकलेनैव । न तूपचरितलावण्यादिशब्दप्रयोगादित्यर्थः । एवं यत्र यत्र भक्तिस्तत्र तत्र ध्वनिरिति तावनास्ति । तेन यदि ध्वनेर्भक्तिर्लक्षणं तदा भक्तिसंनिधौ सर्वत्र ध्वनिव्यवहारः स्यादित्यतिव्याप्तिमभ्युपगम्यापि ब्रूमः-भवतु यत्र यत्र भक्तिस्तत्र तत्र ध्वनिः । तथापि यद्विषयो लक्षणाव्यापारो न तद्विषयो ध्वननव्यापारः । न च भिन्नविषयो धर्मधर्मिभावो धर्म एव लक्षणमित्युच्यते । तत्र लक्षणा तावदमुख्यार्थविषयो व्यापारः । ध्वननं च प्रयोजनविषयम् । न च तद्विषयोऽपि द्वितीयो लक्षणाव्यापारो युक्तः। लक्षणासामग्र्यभावात् । इत्यभिप्रायेणाह-अपि चेत्यादि । मुख्यां वृत्तिमभिधाव्यापार परित्यज्य परिसमाप्य गुणवृत्त्या लक्षणारूपयार्थस्यामुख्यस्य दर्शनं प्रत्यायना सा यत्फलं कर्मभूतं प्रयोजनरूपमुद्दिश्य क्रियते तत्र प्रयोजने तावद्वितीयो व्यापारः । न चासौ लक्षणैव । यतः स्खलन्ती बाधकव्यापारेण विधुरीक्रियमाणा गतिरवबोधनशक्तिर्यस्य शब्दस्य तदीयो व्यापारो लक्षणा । न च प्रयोजनमवेगमयतः शब्दस्य बाधकयोगः । तथाभावे तत्रापि निमित्तान्तरस्य प्रयोजनान्तरस्य चान्वेषणेनावस्थानात् । तेनायं लक्षणलक्षणाया न विषय १. 'शब्दप्रवृत्ति' ग. २. 'अत्र' ग. ३. 'लक्षणाप्रयोजने' ग. १. 'चेत्यर्थः' क ख. २. 'लोम्नानुगतं' ग. ३. 'सदनम्' क-ख. ४. 'ध्वनिव्यवहारः' ग. ५. 'प्रियतमस्यैव' क-ख. ६. 'बहुना' क-ख-पुस्तकयो स्ति. ७. 'ध्वनेयदि' ग. ८. 'अतिव्याप्तिरभ्युपगमस्यापि' क-ख. ९. 'यद्विषयोऽपि' ग. १०. "विषययोः', ग. ११. 'युक्तः कःख-पुस्तकयो स्ति. १२. 'व्यापार च' ग. १३. 'अदर्शनं' ग. १४. 'अपगमयतः' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy