________________
१ उक्ष्योतः] ध्वन्यालोकः । शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् । न चैवम् । तस्मात्
'वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता। व्यञ्जकत्वैकमूलस्य ध्वनेः खाल्लक्षणं कथम् ॥ २१ ॥ तस्मादन्यो ध्वनिरन्या च गुणवृत्तिः । अव्याप्तिरस्य लक्षणस्य । नहि
इति भावः । दर्शनमिति ण्यन्तो निर्देशः । कर्तव्य इत्येव । अवगमयितव्य इत्यर्थः । अमुख्यतेति । बाधकेन विधुरीकृततेत्यर्थः । तस्येति शब्दस्य । दुष्टतैवेति । प्रयोजनावगमस्य सुखसंपत्तये हि से शब्दः प्रयुज्यते । तस्मान्न मुख्यार्थे । यदि च 'सिंहो बटुः' इति शौर्यातिशयेऽप्यवगमयितव्ये स्खलद्गतिवं शब्दस्य तत्तर्हि प्रतीति नैव कुर्यादिति किमर्थं तस्य प्रयोगः । उपचारेण करिष्यतीति चेत्तत्रापि प्रयोजनान्तरमन्विष्यते तत्राप्युपचारेऽनवस्था । अथ न तत्र स्खलद्गतिवं तर्हि प्रयोजनेऽवगमयितव्ये न लक्षणाख्यो व्यापारः । तत्सामग्र्यभावात् । न च नास्ति व्यापारः । न चासावभिधा । समयस्य तत्राभावात् । यद्यापारान्तरमभिधालक्षणातिरिक्तं स ध्वननव्यापारः । न चैवमिति । न च प्रयोगे दुष्टता काचित् । प्रयोजनस्याविघ्नेनैव प्रतीतेः । तेनौभिधैव मुख्येऽर्थे बाधकेन प्रविवित्सुर्निरुध्यमाना सती अचरितार्थवादन्यत्र प्रसरतीति । अत एव मुख्योऽस्यायमर्थ इति व्यवहारः । तथैव चामुख्यतया संकेतग्रहणमपि तत्रास्तीत्यभिधापुच्छभूतैव लक्षणा (उपसंहरति-तस्मादिति । यतोऽभिधापुच्छभूतैव लक्षणा) ततो हेतोवाचकलमभिधाव्यापारमाश्रिता तद्बाधनेनोत्थानात्तत्पुच्छभूतत्वाच गुणवृत्तिः । गौणलाक्षणिकप्रकार इत्यर्थः । सा कथं ध्वनेर्व्यञ्जनात्मनो लक्षणं स्यात् भिन्नविषयवादिति । एतदुपसंहरति-तस्मादिति । यतोऽतिव्याप्तिरुक्ता तत्प्रसङ्गेन च भिन्नविषयलं तस्माद्धेतोरित्यर्थः । एवम् 'अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया' इति कारिकागतामतिव्याप्तिं व्याख्यायाव्याप्तिं व्यांचष्टे-अव्याप्तिरस्येति । अस्य गुणवृत्तिरूपस्येत्यर्थः । यत्र यत्र ध्वनिस्तत्र तत्र यदि भक्तिर्भवेन च स्यादव्याप्तिः । न चैवम् । अविवक्षितवाच्येऽस्ति भक्तिः 'सुवर्णपुष्पां-' इत्यादौ । 'शिखरिणि-' इत्यादौ तु सा कथम् । ननु लक्षणा तावद्गौणमपि व्याप्नोति । केवलं शब्दस्तमर्थ लक्षयित्वा तेनैव सह सामानाधिकरण्यं भजते । 'सिंहो बटुः' इति । अर्थों वार्थान्तरं लक्षयिता खवाचकेन तद्वाचकं समानाधिकरणं करोति । शब्दार्थों वा युगपत्तं लक्षयित्वा ताभ्या
१. 'अप्यस्य' ग. - १. 'उपगमस्य' ग. २. 'स' क-ख-पुस्तकयो स्ति. ३. 'तस्मिन्नमुख्येऽर्थे' क-ख. ४. 'अन्वेष्यम्' ग. ५. 'अथ' ग-पुस्तके नास्ति. ६. 'न' क-ख-पुस्तकयो स्ति. ७. 'तेनाभिधेयमुख्यार्थबाधकेन प्रविधुरीकृता प्रि.........माना सती' ग. ८. 'उप-' इत्यारभ्य 'लक्षणा' इत्यन्तं क-ख-पुस्तकयो स्ति. ९. 'आचष्टे' क-ख. १०. 'यदि' क-ख-पुस्तकयो स्ति: ११. 'ह्यस्ति' ग. १२. 'गौणीमपि' ग..