SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५६ काब्बमाला। ध्वनिप्रमेदो विवक्षितान्यपरवाच्यलक्षणः । अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्ते । तस्माद्भक्तिरलक्षणम् । मेव शब्दार्थाभ्यां मिश्रीभवत इत्येवं लाक्षणिकागौणस्य भेदः । यदाह-'गौणे शब्दप्रयोगः, न लक्षणायाम्' इति । तत्रापि लक्षणास्त्येवेति सर्वत्र सैव व्यापिका । सा च पञ्चविधा । तद्यथा-अभिधेयेन संयोगात् । द्विरेफशब्दस्य हि योऽभिधेयो भ्रमरशब्दः द्वौ रेफौ यस्येति कृला तेने भ्रमरशब्देन यस्य संयोगः संबन्धः षट्पदलक्षणस्यायस्य सोऽर्थो द्विरेफशब्देन लक्ष्यते । अभिधेयसंबन्धं व्याख्यातरूपं निमित्तीकृत्य सामीप्यात् । 'गङ्गायां घोषः' । समवायादिति । वसंबन्धादित्यर्थः । 'यष्टीः प्रवेशय' इति यथा । वैपरीत्यात् । यथा-शत्रुमुद्दिश्य कश्चिद्रवीति-'किमिवोपकृतं न तेन मम' इति । क्रियायोगादिति । कार्यकारणभावादित्यर्थः । यथा-अन्नापहारिणि व्यवहारः 'प्राणानयं हरति' इति । एवमनया लक्षणया पञ्चविधया विश्वमेव व्याप्तम् । तथाहि-शिखरिणि-' इत्यत्राकस्मिकप्रश्नविशेषादिबाधकानुप्रवेशे सादृश्याल्लक्षणास्त्येव । नन्वत्राशीकृतैव मध्ये लक्षणा । कथं तर्युकं विवक्षितान्यपरेति । तद्भेदोऽत्र मुख्योऽसंलक्ष्यक्रमात्मा विवक्षितः । तद्भेदशब्देन च रसाभावतदाभासतत्प्रशमभेदाखदवान्तरमेदाश्च । न च तेषु लक्षणाया उपपत्तिः । तथाहि विभावानुभावप्रतिपादके काव्ये तत्रार्थे मुख्ये तावद्वाधकानुप्रवेशोऽप्यसंभाव्य इति को लक्षणावकाशः । ननु किं बाधया इयदेव लक्षणाखरूपम्-'अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते' इति । इह चाभिधेयानां विभावानुभावादीनामविनाभूता रसादय इति लक्ष्यन्ते । विभावानुभावयोः कारणकार्यरूपत्वात् , व्यभिचारिणां च तत्सहकारित्वादिति चेत्, मैवम् । धूमशब्दाद्धमे प्रतिपने ह्यनिस्मृतिरपि लक्षणाकृतैव स्यात् । ततोऽनेः शीतापनोदस्मृतिरित्यादिरपर्यवसितः शब्दार्थः स्यात् । धूमशब्दस्य खार्थविश्रान्तवान्न तावति व्यापार इति चेत् , आयातं तर्हि मुख्यार्थबाधो लक्षणाया जीवितमिति । सति हि तस्मिन्खार्थविश्रान्त्यभावात् । न च विभावादिप्रतिपादने बाधकं किंचिदस्ति । नन्वेवं धूमावगमनानन्तराग्निस्मरणवद्विभावादिप्रतिपत्त्यनन्तरं रत्यादिचित्तवृत्तिप्रतिपत्तिरिति शब्दव्यापार एवात्र नास्ति । इदं तावदयं प्रतीतिज्ञो मीमांसकः प्रष्टव्यः-किमत्र परचित्तवृत्तिमात्रे प्रतिपत्तिरेव रसप्रतिपत्तिरभिमता भवतः । नैवं भ्रमितव्यम् । एवं हि लोकगतचित्तवृत्त्यनुमानमात्रमिति का रसता । यस्वलौकिकचमत्कारात्मा रसाखादः काव्यगतविभावादिचर्वणाप्राणो नासौ स्मरणानुमानादिना खलीकारपात्रीकर्तव्यः । १. 'तद्भेदप्रकारा वक्ष्यमाणभक्त्या ' ग. १. 'प्रयोगेण लक्षणां' क-ख. २. 'सैव सर्वत्र' ग. ३. 'पञ्चधा' ग. ४. 'हि' कख-पुस्तकयो स्ति. ५. 'तेन' क-ख-पुस्तकयो स्ति. ६. 'ख' ग-पुस्तके नास्ति. ७. 'न त दो हि मुख्यो' क-ख... 'स्मरणानुमानादिसाम्येन' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy