SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ १ उयोतः] . ध्वन्यालोकः । ५७ किं तु लौकिकेन कार्यकारणानुमानादिना संस्कृतहृदयो विभावादिकं प्रतिपद्यमान एव न ताटस्थ्येन प्रतिपद्यते । अपि तु हृदयसंवादापरपर्यायसहृदयत्वपरवशीकृततया पूर्णीभविष्यद्रसाखादाकुरीभावेनानुमानस्मरणादिसरणिमनारुयैव तन्मयीभवनोचितचर्वणाप्राणतया । न चासौ चर्वणा प्रमाणान्तरतो जाता पूर्व येनेदानीं स्मृतिः स्यात् । न चाधुना कुतश्चित्प्रमाणान्तरादुत्पन्ना । अलौकिके प्रत्यक्षाद्यव्यापारात् । अत एवालौकिक एव विभावादिव्यवहारः। यदाह-'यदयमनुभावयति वागङ्गसत्त्वकृतोऽभिनयस्तस्मादनुभाव' इति । तच्चित्तवृत्तितन्मयीभवनमेव ह्यनुभवनम् । लोके तु कार्यमेवोच्यते नानुभावः। अत एव परकीया न चित्तवृत्तिर्गम्यत इत्यभिप्रायेण 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रे स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । स्थायिनस्तु रसीभाव औचित्यादुच्यते । तद्विभावानुभावोचितचित्तवृत्तिसंस्कारसुन्दरचर्वणोदयात् । हृदयसंवादोपयोगिलोकचित्तवृत्तिपरिज्ञानावस्थायामुद्यानपुलकादिभिः स्थायिभूतरत्याद्यवगमाच्च । व्यभिचारी तु चित्तवृत्त्यात्मले मुख्यचित्तवृत्तिपरवश एव चळत इति विभावानुभावमध्ये गणितः । अत एव रस्यमानताया एषैव निष्पत्तिो प्रबन्धप्रवृत्तबन्धुसमागमादिकारणोदितहर्षादिलौकिकचित्तवृत्तिन्यग्भावेन चर्वणारूपत्वम् । अतश्चर्वणात्राभिव्यञ्जनमेव, न तु ज्ञापनम् । प्रमाणव्यापारवत् । नाप्युत्पादनम् । हेतुव्यापारवत् । ननु यदि नेयं ज्ञप्तिर्न वा निष्पत्तिः, तर्हि किमेतत् । न वयमसावलौकिको रसः। अपि तु चर्वणोपयोगी । ननु वैतदृष्टमन्यत्र । यत एव न दृष्टं तत एवालौकिकमित्युक्तम् । नन्वेवं रसोऽप्रमेयः स्यात् । अस्तु । किं ततः । तच्चर्वणात एव प्रतीतिव्युत्पत्तिसिद्धेः किमन्यदर्थनीयम् । नन्वप्रमाणकमेतत् । न । खैसंवेदनसिद्धतात् । ज्ञानविशेषस्यैव चर्वणात्मसात् । इत्यलं बहुना । अतश्च रसोऽयमलौकिकः । येन ललितपरुषानुप्रासस्यार्थाभिधानानुपयोगिनोऽपि रसं प्रति व्यञ्जकलम् । का तत्र लक्षणायाः शङ्कापि । काव्यात्मकशब्दनिष्पादनेनैव तच्चर्वणा दृश्यते । दृश्यते हि तदेव काव्यं पुनः पुनः पठंश्चर्वमाणश्च सहृदयो लोकः । न तु काव्यस्य तत्र 'उपादेयापि ये हेया' इति न्यायेन कृतप्रतीतिकस्यानुपयोग एवेति शब्दस्यापि ध्वननव्यापारः । अत एवालक्ष्यक्रमता । यत्तु वाक्यभेदः स्यादिति केनचिदुक्तम् , तदनभिज्ञतया । शास्त्रं हि सकृदुच्चारितं समयबलेनार्थ प्रतिपादयद्युगपद्विरुद्धानेकसमयस्मृत्ययोगात्कथमर्थद्वयं प्रत्याययेत् । अविरुद्धत्वे वा तावा १. 'प्रतीयते' ग. २. 'व्यवहार एव' क-ख. ३. 'लोकवृत्ति' क-ख. ४. 'चोच्यते' क. ५. 'यत्प्रबलप्रवृत्तवं बन्धु' ग. ६. 'स्वव्यापार' ग. ७. 'नैवं' क-ख. ८. 'नन्वयं' ग. ९. 'रसः । ननु विभावादिरत्र किं ज्ञापको हेतुरुत कारकः । न ज्ञापको न कारकः । अपि तु' ग. १०. 'अप्रमाणं' क-ख. ११. 'प्रीतिव्युत्पत्ति' क. 'प्रीत्युत्पत्ति' ख. १२. “किमर्थनीयम्' ग. १३. 'ख' क-खपुस्तकयो स्ति. १४. 'नुपयोगेऽपि' ग. १५. "निष्पीडनेनैव' क-ख. १६. 'कार्य' क-ख. १७. 'चळमाणः' ग. १८. 'सहृदयलोकः' क-ख. १९. 'शब्दस्यापीह ध्वननं' ग. २०. 'प्रत्यापयेत्' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy