SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १ उद्योतः ] द्विविधः सामान्येन । तत्राद्यस्योदाहरणम्--- Ishalls 'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरं कृतविद्यश्च यश्च जानाति सेवितुम् ॥' द्वितीयस्यापि -- 'शिखरिणि क नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । तरुणि येन तवाघरपाटलं दशति बिम्बफलं शुकशावकः ॥' ૧ भूतः खात्मा येनेत्यविवक्षितवाच्यो व्यञ्जकोऽर्थः । एवं विवक्षितान्यपरवाच्यैऽपि । यदि वा कर्मधारयः । अत्र पक्षे विवक्षितश्चासौ वाध्यश्चेति । तत्रार्थः कदाचिदैनुपपद्यमानत्वादिना निमित्तेनाविवक्षितो भवति । कदाचिदुपपद्यमान इति कृत्वा विक्षि एक् । व्यङ्ग्यपर्यन्तां तु प्रतीतिं स्वसौभाग्यमहिम्ना करोति । अत एवार्थोऽत्र प्राधान्येन व्यञ्जकः पूर्वत्र शब्दः । ननु च विवक्षा चान्यपरत्वं चेति विरुद्धम् । अन्यपरत्वेनैव विर्वेक्षणात्को विरोधः । सामान्येनेति । वस्त्वलंकाररसात्मना हि त्रिदो ध्वनिरुभाभ्यामेवाभ्यां संगृहीत इति भावः । ननुं तन्नामपृष्ठे एतन्नामनिवेशनस्य किं फलम् । उच्यते - अनेन हि नामद्वयेन ध्वननात्मनि व्यापारे पूर्वप्रसिद्धामिधातात्पर्यलक्षणात्मकव्यापारत्रितयावगतार्थप्रतीतेः प्रतिपत्तृगतायाः प्रयोक्रभिप्रायरूपायाच विवक्षायाः सहकारित्वमुक्तमिति ध्वनिस्खरूपमेध नामभ्यामेव प्रोज्जीवितम् । सुवपुष्पामिति । सुवर्णानि पुष्प्यतीति सुवर्णपुष्पा । एतच्च वाक्यमेवासंभवत्स्वार्थमिति कृत्वाविवक्षितवींच्यम् । तत एव पदार्थमै मिधायान्वयं च तात्पर्यशक्त्यावगमय्यैव बाधकवशेनोपहत्य सादृश्यात्सुलभसमृद्धिसंभारभाजनतां लक्षयति । तलक्षणाप्रयोजकं शूरकृतविद्यासेवकानां प्राशस्त्यमशब्दवाच्यत्वेन गोप्यमानं सन्नायिकाकुचकलशँयुगलमिव महार्घतामुपयद्धन्यत इति । शब्दोऽत्र प्रधानतया व्यञ्जकः, अर्थस्तु तत्सहकारितयेति चत्वारो व्यापाराः । शिखरिणीति । नहि निर्विघ्नोत्तमसिद्धयोऽपि श्रीपर्व - तादय इमां सिद्धिं विदध्युः । दिव्यकल्पसहस्रादिश्चात्र परिमितः कालः । किममिधान १. ‘कृतः ।..................णार्थपथे अविवक्षितश्चासावर्यश्चेति । विवक्षितान्यपरश्वासौ वाच्यवेति । तत्रार्थः कदाचिद्' ग. २. 'अनुपपाद्य' क-ख. ३० 'उपपाय' क-ख. ४. 'तु' क·ख-पुस्तकयोर्नास्ति. ५. 'विवक्षितात्' ग. ६. 'हिं' गं-पुस्तकें नास्ति. ७. किं नाम' ग. ८. 'प्रोज्झितम्' क.ख. ९. 'वाक्यक्रमे संभवत्' ग. १०. 'वाध्यात्' ग. ११. 'अमिघेयान्वयं च' ग. १२. 'वशेन तमपहस्य' ग. १३. 'तलक्षणप्रयोजनं' ग. १४. 'उपनयत् क- ख. १५. 'अर्थस्तत्' क-ख. १६. 'व्यारोपाः' ग० १७. 'निर्मि नाक्रम' ग. १८. 'श्रीपर्वतप्रभृतय इत्यं' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy