SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। कत्वसाम्याङ्ग्रनिरित्युक्तः । न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेदतद्भेदसंकलनया महाविषयस्य यत्प्रकाशनं तदत्र प्रसिद्धालंकारविशेषमात्रप्रतिपादनेन तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः । न च तेषु कथंचिदीर्घ्यया कलुषितशेमुषीकत्वमाविष्करणीयम् । तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः। अस्ति ध्वनिः । स चासावविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति समस्तमपि काव्यं ध्वनिः । तेन व्यतिरेकाव्यतिरेकव्यपदेशोऽपि न युक्तः । वाच्यवाचकसंमिश्र इति । वाच्यवाचकसहितः संमिश्र इति मध्यमपदलोपी समासः । 'गामश्वं पुरुषं पशुम्' इतिवत्समुच्चयोऽत्र चकारेण विनापि तेन वाच्योऽपि ध्वनिः वाचकोऽपि शब्दो ध्वनिः । द्वयोरपि व्यञ्जकत्वं ध्वनिवभावात् । संमिश्रिते विभावानुभावसंवलनच्छाययेति व्यङ्ग्योऽपि ध्वनिः ध्वन्यत इति कृता । शब्दनं शब्दः शब्दव्यापारः। नचासावभिधादिरूपः । अपि खात्मभूतः। सोऽपि ध्वननाद्ध्वनिः । काव्यमिति व्यपदेश्यश्च योऽर्थः सोऽपि ध्वनिः । उक्तप्रकारध्वनिचतुष्टयत्वात् । अत एव साधारणहेतुमाह-व्यअकत्वसाम्यादिति । व्यञ्जकत्वं व्यञ्जनभावः सर्वेषु पक्षेषु सामान्यरूपः । साधारण इत्यर्थः । यत्पुनरेतदुक्तं 'वाग्विकल्पानामानन्त्यात्' इत्यादि तत्परिहरति-न चैवंविधस्येति । वक्ष्यमाणः प्रभेदो यथा-मुख्य द्वे रूपे । तद्भेदा यथा-अर्थान्तरसंक्रमितवाच्यः अत्यन्ततिरस्कृतवाच्य इत्यविवक्षितवाच्यस्य, असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यकमव्यङ्ग्य इति विवक्षितान्यपरवाच्यस्येति । तत्राप्यवान्तरभेदाः। महाविषयस्येति । अशेषलक्ष्यव्यापिन इत्यर्थः । विशेषग्रहणेनाव्यापकत्वमाह । मात्रशब्देनाङ्गित्वाभावम् । नं चैवं भवतीत्यन्वयः । तत्र ध्वनिखरूपे भावितं प्रणिहितं चेतो येषाम् । न चमत्काररूपेण भावितमधिवासितम् । अत एव मुकुलितलोचनत्वादिविकारकारणं चेतो येषामिति । अभाववादिन इति । अवान्तरप्रकारत्रयमिन्ना अपीत्यर्थः । तेषां प्रत्युक्तौ फलमाह-अस्तीति । उदाहरणपृष्ठे भाक्तत्वं सुशङ्क सुपरिहरं च भवतीत्यभिप्रायेणोदाहरणदानावकाशार्थ भाक्तत्वालक्षणीयत्वे प्रथमं परिहरणयोग्येऽप्यप्रतिसमाधाय भविष्यदुझोतानुवादानुसारेण वृत्तिकृदेव प्रभेदनिरूपणं करोतिस चेति । पञ्चधापि ध्वनिशब्दार्थे येन यत्र यतो यस्य यस्मै इति बहुव्रीह्याश्रयण यथोचित सामानाधिकरण्यं सुयोज्यम् । वाच्य तु ध्वनी वाच्यशब्देन खात्मा वक्ष्यते । तेनाविवक्षितोऽप्रधानी १. 'व्यञ्जकत्वात् । ध्वनतीति कृत्या' ग. २. 'संबलनयेति' क-ख. ३. 'स चापि ध्वनिः । उक्तप्रकारध्वनिचतु' क-ख. ४. 'व्यन्यस्य व्यञ्जकभावः' ग. ५. 'अङ्गित्वाभावं' क-ख. ६. 'न चैवं भवतीत्यन्वयः' ग-पुस्तके नास्ति. ७. 'न वा' कख. ८. 'वासितं चेतो येषाम्' क-ख. ९. 'मिन्नोऽपीत्यर्थः' क-ख. १०. 'उद्योते गतानुवादानुसरणेन' ग, ११. 'शब्दार्थो' ग, १२. 'अर्थे' क-ख-पुस्तकयो स्ति. १३. 'वक्ष्यते' क-ख. पुस्तकयोनोस्ति.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy