________________
१ उयोतः] वन्यालोकन
"४७ मुक्तिः, न तु यथाकथंचित्प्रवृत्तेति प्रतिपाद्यते । प्रथमे हि विद्वांसो वैयाकरणाः व्याकरणमूलत्वात्सर्वविद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति । तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभिर्वाच्यवाचकसंमिश्रः शब्दात्मा काव्यमिति व्यपदेश्यो व्यञ्ज
न भवति किं तु घटेऽपीत्यनेन व्यापकोऽयमित्युक्तं भवति महाविषयत्वात् । विद्वदुपशेति । विद्वंय उपज्ञा प्रथम उपक्रमो यैस्या उक्तेरिति बहुव्रीहिः । तेन 'उपज्ञोपक्रम' इति तत्पुरुषाश्रयं नपुंसकत्वं निरवकाशम् । श्रूयमाणेष्विति । श्रोत्रशष्कुली संतानेनागता अन्त्याः शब्दाः श्रूयन्त इति प्रक्रियायां शैब्दाः श्रूयमाणा इत्युक्तम् । तेषां घण्टानुरणनरूपत्वं तावदस्ति ते च ध्वनिशब्देनोक्ताः । यथाह भगवान्भर्तृहरिः-'यः संयोगवियोगाभ्यां करणैरुपजन्यते । स स्फोटः शब्दजः शब्दो ध्वनिरित्युच्यते बुधैः ॥' एवं घण्टादिनिर्हादस्थानीयोऽनुरणनात्मोपलक्षितो व्यङ्ग्योऽप्यर्थो ध्वनिरिति व्यवहृतः । इत्येष प्रकारोऽव्यक्तशब्दानामेव वर्तते । व्यक्तशब्दानां तथा श्रूयमाणा ये वर्णा नादशब्दवाच्या अन्त्यबुद्धिनिर्माह्याः स्फोटामिव्यञ्जकास्ते ध्वनिशब्देनोक्ताः। यथाह भगवान्स एव-प्रत्ययैरनुपाख्येयैर्ग्रहणानुग्रहैस्तथा । ध्वनिप्रकाशिते शब्दे खरूपमवधार्यते ॥ इति । तेन व्यञ्जको शब्दार्थावपीह ध्वनिशब्देनोक्तौ । किंचं वर्णेषु तावमात्रपरिमाणेष्वपि सत्सु । यथोक्तम्-'अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः । यदि या नैव गृह्णाति वर्ण वा सकलं स्फुटम् ॥ इति । तेषु तावत्खेव श्रूयमाणेषु वक्तुर्योऽन्यो द्रुतविलम्बितादिवृत्तिभेदात्मा प्रसिद्धादुच्चारणोदिव्यापारादभ्यधिकः स ध्वनिरुतः । यदाह स एव–'शब्दस्योर्ध्वममिव्यक्तेर्वृत्तिभेदास्तु वैकृताः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥' इति । अस्माभिरपि प्रसिद्धेभ्यः शब्दव्यापारेभ्योऽमिधातात्पर्यलक्षणारूपेभ्योऽतिरिक्तो व्यापारो ध्वनिरित्युक्तः । एवं चतुष्कमपि ध्वनिः । तद्योगाच्च
१. 'प्रकाश्यते' ग. २. 'तेषु श्रूय' क-ख. ३. 'व्याहरन्ति' ख. ४. 'तथैवान्यैः इत्यारभ्य 'आविष्करणीयम्' इत्यन्तं क-ख-पुस्तकयो स्ति. - १. 'विद्वदुपज्ञा' ग. २. 'अस्या क-ख. ३. श्रयत्वं गः ४. 'शब्दजाः शब्दा इत्युक्तम् क-ख. ५. 'तत्राह' क-ख.. ६. 'तत्रभवान्भर्तृ' ग. ७. 'शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः' ग. ८. 'घण्टानाद' ग. ९. 'इत्येष-शब्दाना' ग-पुस्तके नास्ति. १०. 'यथा' क-ख. ११. 'स एव तत्रभवान्' ग. १२. 'इति तेन' ग-पुस्तके नास्ति. १३. 'अपि' ग-पुस्तके नास्ति. १४. 'किंच' ग-पुस्तके नास्ति. १५. 'आदि' ग-पुस्तके नास्ति.. १६. 'भेदं तु' क-ख. १७. 'समपोहन्ते' क-ख. १८. 'ध्वनिरुक्तः'ग.