________________
काव्यमाला। 'तत्परावेव शब्दार्थों यत्र व्यङ्गय प्रति स्थितौ।'
वनेः स एव विषयो मन्तव्यः संकरोज्झितः ॥ १६ ॥ तस्मान्न ध्वनेरन्यत्रान्तर्भावः । इतश्च नान्तर्भावः । यतः काव्यविशेषोऽङ्गी ध्वनिरिति कथितः । तस्य पुनरङ्गानि-अलंकारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्भूतोऽवयवीति प्रसिद्धः । अपृथग्भावे तु तदङ्गत्वं तस्य । न तु तत्त्वमेव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेव । सूरिभिः कथित इति विद्वदुपज्ञेय
सद्भावेऽपि व्यङ्ग्यस्य प्राधान्यम् । अप्राधान्ये क्लिष्टप्रतीतौ वाच्येन समप्राधान्येऽस्फुटप्राधान्ये च । क तर्खसावित्याह-तत्परावेवेति । संकरेणालंकारानुप्रवेशसंभावनया उज्झित इत्यर्थः । संकरालंकारेणेति बसत् । अन्यालंकारोपलक्षणत्वे हि क्लिष्टं स्यात् । इतश्चेति । न केवलमेन्योन्यविरुद्धवाच्यवाचकभावव्यङ्ग्यव्यञ्जकभावसमाश्रयत्वात् । न तादात्म्यमलंकाराणां ध्वनेश्च यावत्स्वामिभृत्यवदङ्गिरूपाङ्गरूपयोर्विरोधादित्यर्थः । अवयव इति । एकैक इत्यर्थः । तँदाह-पृथग्भूत इति । पृथग्भूतस्तथा माभूत् , समुदायमध्यनिपतितस्तर्वस्तु तथेत्याशझ्याह-अपृथग्भावे विति । तदापि न स एक एव समुदायः । अन्येषामपि समुदायिनां तद्भावात् । तत्समुदायिमध्ये च प्रतीयमानमप्यस्ति । न च तदलंकाररूपम् । प्रधानत्वादेव । यत्त्वलंकाररूपं तदप्रधानत्वान्न ध्वनिः । तदाह न तु तत्त्वमेवेति । नन्वलंकार एव कश्चित्त्वया प्रधानताभिषेकं दत्त्वा ध्वनिरित्यात्मेति चोक्त इत्याशङ्कयाह-यत्रापि वेति । नहि समासोक्त्यादीनामन्यतम एवासौ तथास्माभिः कृतः । तद्विविक्तत्वेऽपि तस्य भावात् । समासोक्त्यायलंकारखरू'पस्य समस्तस्याभावेऽपि तस्य दर्शितत्वात् 'अत्ता एत्थ' इति 'कस वा ण' इत्यादि । तदाह-न तनिष्ठत्वमेवेति । तस्मिन्निष्ठा पर्यवसानं यस्येति तन्न भवति । महाविषयलात् । व्यापकत्वादित्यर्थः । घटो घट एव न भवति, किं तु तत्कर्परेऽपि, तत्रापि - १. 'अलंकारों' क-ख. २. 'न' क-ख. पुस्तकयो स्ति.
१. 'क्लिष्ट' क-ख. २. 'स्फुटे प्राधान्ये क' क-ख. ३. 'उत्थित' ग. ४. 'म्लिष्टं' क-ख. ५. 'अनेन' क-खं. ६. 'इत्याह' क-ख. ७. 'तदा' क-ख-पुस्तकयो स्ति. ८. 'अथ पृथग्भूतस्तदा क-ख. ९. 'समुदायपतितः' क-ख. १०. 'पृथग्भावेति' क-ख. ११. 'तत्रभावात्' क-ख. १२. 'समुदाय' क-ख. १३. 'यदलंकार' ग. १४, 'त्वया' क-ख-पुस्तकयो स्ति.. १५. 'तस्मिन्' इत्यारभ्य 'विद्वदुपक्षेति' इत्यन्तं ग. पुस्तके नास्ति.