________________
२ उयोतः] ध्वन्यालोकः।
१५ । ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानीं श्लेषस्य विषय एवापहृतः स्यात् नापहृत इत्याह
'आक्षिप्त एवालंकारः शब्दशक्त्या प्रकाशते । . - यसिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ २२ ॥ ____यस्मादलंकारो न वस्तुमानं यस्मिन्काव्ये शब्दशक्त्या प्रकाशते स एवं शब्दशक्त्युद्भवो ध्वनिरित्यस्माकं विवक्षितः । वस्तुद्वये च शब्दशक्त्या प्रकाश्यमाने श्लेषः । यथा-- . ....
'येन ध्वस्तमनोभवेन बलिजित्कायः पुराऽस्त्रीकृतो . यश्चोवृत्तभुजंगहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स खयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।।'
केवलं विवक्षितान्यपरवाच्यो द्विविधः। अयमपि द्विविध एवेत्यपिशब्दार्थः । विवृणोतिअस्येत्यादिना। कारिकागतं हिशब्दं व्याचष्टे-यस्मादिति । अलंकारशब्दस्य व्यवच्छेद्यं देर्शयति-न वस्तुमात्रमिति । वस्तुद्वये चेति । चशब्दस्तुशब्दस्यार्थे ।
येनेति । येन ध्वस्तं बालक्रीडायामनः शकटम् । अभवेनाजेन सता । बलिनो दानवान्यो जयति तादृग्येन कायो वपुः पुराऽमृतहरणकाले स्त्रीत्वं प्रापितः । यश्चोद्वृत्तं समदं कालियाख्यं भुजंगं हतवन् । रवे शब्दे लयो यस्य । 'अकारो विष्णुः' इत्युक्तेः । यश्चागं गोवर्धनपर्वतं गां च भूमि पातालगतामधारयत् । यस्य च नाम स्तुत्यमृषय आहुः । किं तत् । शशिनं मनातीति क्विप् । राहुः । तस्य शिरोहरो मूर्धापहारकः । स लां माधवो विष्णुः सर्वदः पायात् । कीदृक् । अन्धकनाम्नां जनानां येनं क्षयो निवासो द्वारकायां कृतः । यदि वा मौसले इषीकामिस्तेषां क्षयो विनाशो येन कृतः । द्वितीयोऽर्थः-येन ध्वस्तकामेन सता बलिजितो विष्णोः संबन्धी कायः पुरा त्रिपुरनिर्दहनावसरेऽस्त्रीकृतः शरत्वं नीतः। उद्वृत्ता भुजंगा एव हारा वलयाश्च यस्य । मन्दाकिनी
१. 'विवक्षितम्' ग. १. 'विवृणोति-अस्येत्यादिना' ग-पुस्तके नास्ति. २. 'दर्शयति' क-ख-पुस्तकयोर्नास्ति. ३. 'वस्तुद्वये चेति' क-ख-पुस्तकयो स्ति. ४. 'शशिमत् । शशिनं' ग. ५. 'येन खयं द्वारकाख्यः क्षयो निवासः कृतः' ग. ६. 'संमर्दनावसरे' ख.