________________
९६
काव्यमाला ।
नन्वलंकारान्तरप्रतिभायामपि षव्यपदेशो भवतीति दर्शितं भट्टोइटेन तत्पुनरपि शब्दशक्तिमूलो ध्वनिर्निरैवकाश इत्याशयेदमुक्तं 'आक्षिप्तः ' इति । तदयमर्थः यत्र शब्दशक्त्या साक्षादलंकारं वाच्यं सत्प्रतिभासते स सर्वः श्लेषविषयः । यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्ग्यमेवालंकारान्तरं प्रकाशते स ध्वनेर्विषयः । शब्दशक्त्या साक्षादलंकारान्तरप्रतिभा यथा
'तस्या बिनापि हारेण निसर्गादेव हारिणौ
-
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥१
अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद्विरोषालंकारश्च प्रतिभासत इति विरोधच्छायानुमाहिणः श्लेषस्यायं विषयः, न त्वनुखानोपमव्ययस्य ध्वनेः । अलक्ष्यमव्यत्यप्रतिभासस्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यञ्जितस्य विषय एव । यथा ममैव
-
'श्लाध्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजितत्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः ।
च योऽधारयत् । यस्य च ऋषयः शशिमचन्द्रयुक्तं शिर आहुः । हरः इति च नाम स्तुत्यमाहुः । स भगवान्खयमेवान्धकासुरस्य विनाशकारी त्वां सर्वदा सर्वकालमुमाया धवो वल्लभः पायादिति । अत्र वस्तुमात्रं द्वितीयं प्रतीतं नालंकार इति श्लेषस्यैव विषयः । आक्षिप्तशब्दस्य कारिकागतस्य व्यवच्छेद्यं दर्शयितुं चोद्येनोपक्रमते — नन्वलंकारेत्यादिना । तस्या विनापीति । अपिशब्दोऽयं विरोधमाचक्षाणोऽर्थद्वयेऽप्यमिधाशक्तिं नियच्छति हरतो हृदयमैवश्यमिति हारिणौ । हारो विद्यते ययोस्तौ हारिणाविति । अत एव विस्मयशब्दस्येवार्थस्योपोद्बलकः । अपिशब्दाभावे तु तत्रैवार्थद्वयामिधा स्यात् । स्वसौन्दर्यादेव स्तनयोर्विस्मयहेतुत्वोपपत्तेः । विस्मयाख्यो भाव इति दृष्टान्ताभिप्रायेणोपात्तम् । यथा विस्मयः शब्देन प्रतिभाति । विस्मय इत्यनेन शब्देन तथा विरोधोऽपि प्रतिभात्यपीत्यनेन शब्देन । ननु किं सर्वथान ध्वनिर्नास्तीत्याशङ्कयाहअलक्ष्येति । विरोधेन वेति । वाग्रहणेन श्लेषविरोधसं करालंकारोऽयमिति दर्शयति । ३. 'श्लेषः '
१. 'श्लेषस्य व्यपदेश इति' क-ख. २. 'निरवकाशः' ग पुस्तके नास्ति क- ख. ४. 'अव्यङ्ग्यं' ग. ५. 'भातीति' क ख ६. 'क्रमप्रतिभस्य' ग.
१. ‘च यस्य नामाहुः' ग. २. 'उमावल्लभः ' क-ख. ३. 'चोपक्रमते' क- ख. ४. 'अवश्यं' क· ख- पुस्तकयोर्नास्ति ५. 'न तत एव' क ख ६. 'शब्देन ' क-खपुस्तकयोर्नास्ति.