________________
२ उयोतः]
ध्वन्यालोकः। बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रारमन्चक्षुर्वक
खाने यां खतनोरपश्यदधिकां सा रुक्मिणी कोऽवतात् ॥' अत्र वाच्यतयैव व्यतिरैकच्छायानुप्राही श्लेषः प्रतीयते । यथा च'भ्रमिमरतिमलसहृदयतां प्रलयं मूछो तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विकं वियोगिनीनाम् ।। यथा वा
'चैमहिअमाणसकञ्चणपङ्कअणिम्महिअपरिमला जस्स ।
अखण्डि अंदाणपसारा बाहुप्पलिहा विअ गइन्दा ॥" अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते ।
स चाक्षिप्तोऽलंकारो यत्र पुनः शब्दान्तरेणामिहितखरूपस्तत्र शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिव्यवहारः । तत्र कक्रोक्त्यादिवाच्यालंकारव्यवहार एव । यथा
अनुग्रहयोगादेकतरत्यागग्रहणनिमित्ताभावो हि वाशब्देन सूच्यते । सुदर्शनं चक्रं करे यस्य । व्यतिरेकपक्षे सुदर्शनौ श्लाघ्यो करावेव यस्य चरणारविन्दस्य ललितं त्रिभुवनाक्रमणक्रीडा। चन्द्ररूपं चक्षुर्धारयन्। वाच्यतयैवेति । खतनोस्पश्यदधिकामिति शब्देन व्यतिरेकस्योक्तवात् । भुजगशब्दार्थर्यालोचनाबलादेव विषशब्दो जलमभिधायापि न विरन्तुमुत्सहते। अपि तु द्वितीयमर्थ हालाहललक्षणमाह । तदमिधानेन विनाभिधाया एवासमाप्तत्वात्। भ्रमिप्रभृतीनां तु मरणान्तानां साधारण एकार्थः। (चमहीति निराश्रीकृतत्वेन खण्डितानि यानि मानसानि शत्रुहृदयानि तान्येव काञ्चनपङ्कजानि । सुसारत्वात् । तैर्हेतुभूतैः । णिम्महिअपरिमला इति प्रसृतप्रतापसारा अखण्डितवितरणप्रसरा बाहुपरिषा एव यस्य । गजेन्द्रा इति । गजेन्द्रशब्दवशाचमहिअशब्दः परिमलशब्दो दानशब्दच नोटनसौरभमर्दलक्षणानर्थान्प्रतिपाद्यापि न परिसमाप्ताभिधाव्यापारा भवन्तीत्युक्तरूपं द्वितीयमप्यर्थमभिदधत्येव । एकामाक्षिप्तशब्दस्य व्यवच्छेद्यं प्रदश्वकारस्य व्यवच्छेद्यं दर्शयितुमाह-स चेति । उभयार्थप्रतिपादनशक्तशब्दप्रयोगे, यत्र सावदेकतरविषयनियमनकारणमभिधाया नास्ति यथा 'येन ध्वस्तमनोभवेन' इति ।
१. 'प्रतीयत एव' क-ख. २. 'सादं च करु. ३....... मानसकाञ्चनपङ्कजनिमंथितपरिमला यस्य । अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः ॥' इति छाया.
१. 'पदावलोचना' क-ख. २. 'विश्राणन' क-ख.
-